श्रवणम्

2.24.1
सेमाम᳚विड्ढि॒ प्रभृ᳚तिं॒ य ईशि᳚षे॒॑या वि᳚धेम॒ नव᳚या म॒हा गि॒रा ।
यथा᳚ नो मी॒ढ्वान्त्स्तव᳚ते॒ सखा॒ तव॒ बृह᳚स्पते॒ सीष᳚ध॒ः सोत नो᳚ म॒तिम् ॥
▶ पदपाठः (Word-by-word)
सः । इ॒माम् । अ॒वि॒ड्ढि॒ । प्र॑भृ᳚तिम् । यः । ईशि᳚षे । अ॒या । वि॒धे॒म॒ । नव᳚या । म॒हा । गि॒रा ।
यथा᳚ । नः॒ । मी॒ढ्वान् । स्तव᳚ते । सखा᳚ । तव᳚ । बृह᳚स्पते । सीस᳚धः । सः । उ॒त । नः॒ । म॒तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् ॥ निर्ममेतमहंव्न्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथऋषिच्छन्दोदेवताविनियोगपुरः सरसप्तमो व्याख्यायते गार्त्समदस्यद्वितीयमण्डलस्य तृतीयेनुवाकेदशसूक्तानि तत्रैकंसूक्तं व्याकृतम् सेमामितिषोळशर्चंद्वितीयंसूक्तम् अत्रानुक्रम्यते— सेमांषोळशान्त्यात्रिष्टुप् द्वादशीचसैन्द्रीचेति मण्डलद्रष्टागृत्समदऋषिः द्वादशीषोडश्यौत्रिष्टुभौ शिष्टाचतुर्दशजगत्यः ब्राह्मणस्पत्यंहेत्युक्तत्वात् तुह्यादिपरिभाषयाइदमादीनित्रीणिसूक्तानिब्राह्म णस्पत्यानि अस्यसूक्तस्यद्वादशीऎन्द्रीइन्द्रदेवत्या चशब्दात् ब्राह्मणस्पत्याच सामान्यविनियोगः पूर्वमेवोक्तः विशेषस्तुलिङ्गादवगन्तव्यः ।

हेबृहस्पते यस्त्वंईशिषेसर्वस्यजगतईश्व्रोभवसि सत्वंइमामस्मदीयांप्रभृतिंप्रकर्षेणभृतां स्तुतिं अविड्डिप्राप्नुहि अवतेः प्राप्त्यर्थस्यलोट्येतद्रूपम् वयंचत्वांअयाअनयाछान्दसोवर्णलोपः नवयानूतन याप्रत्यग्रयामहामहत्यागिरावेदरूपयास्तुतिलक्षणयावाचाविधेमपरिचरेम विधतिःपरिचरणकर्मा उतअपिचनोस्माकं मध्येमीड्वान् सेक्तास्तुतेर्वर्षिता कर्तेतियावत् तवसखामित्रभूतः सन् यथायेन प्रकारेणयत्कामनयास्तवतेत्वांस्तौति हेबृहस्पते बृहतोब्रह्मणोमन्त्रस्यस्वामिन् सत्वं नोस्माकंमतिं तदभिमतंफलंसीषधः साधय छान्दसेलुङिचङिएतद्रूपम् ॥ १ ॥