तद्दे॒वानां᳚ दे॒वत᳚माय॒ कर्त्व॒मश्र᳚थ्नन्दृ॒ळ्हाव्र᳚दन्त वीळि॒ता ।
उद्गा आ᳚ज॒दभि᳚न॒द्ब्रह्म᳚णा व॒लमगू᳚ह॒त्तमो॒ व्य᳚चक्षय॒त्स्व᳚ः ॥
उद्गा आ᳚ज॒दभि᳚न॒द्ब्रह्म᳚णा व॒लमगू᳚ह॒त्तमो॒ व्य᳚चक्षय॒त्स्व᳚ः ॥
पदपाठः (Word-by-word)
तत् । दे॒वाना᳚म् । दे॒व॑त᳚माय । कर्त्व᳚म् । अश्र᳚थ्नन् । दृ॒ळ्हा । अव्र᳚दन्त । वी॒ळि॒ता ।
उत् । गाः । आ॒ज॒त् । अभि᳚नत् । ब्रह्म᳚णा । व॒लम् । अगू᳚हत् । तमः᳚ । वि । अ॒च॒क्ष॒य॒त् । स्व१॒᳚रिति᳚ स्वः᳚ ॥
उत् । गाः । आ॒ज॒त् । अभि᳚नत् । ब्रह्म᳚णा । व॒लम् । अगू᳚हत् । तमः᳚ । वि । अ॒च॒क्ष॒य॒त् । स्व१॒᳚रिति᳚ स्वः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
देवानामिन्द्रादीनांमध्येदेवतमाय अतिशयेनदानादिगुणयुक्ताय षष्ठ्य्र्थेचतुर्थी ईदृशस्य ब्रह्मण स्पतेस्तत्कर्त्वंकर्तव्यं कर्म किंपुनस्तदितिचेदुच्यते—दृह्ळा दृढानिपर्वतादीनि अश्रश्नन् श्रंथविमोचनप्र तिहर्षणयोः अस्यबलेनश्रथितानि विश्लिष्टान्यभूवन् तथावीळितावीळितानिसंस्तं भितानिदृढीकृता- निवृक्षादीनि वीळयतिश्चव्रीडयतिश्चसंस्तंभकर्माणावितियास्कः । अव्रदन्त मृदून्यभवन् व्रदतिर्मृदू- भावकर्मा अपिचसब्रह्मणस्पतिः बलेनापहृतागाः उदाजत् अजगतिक्षेपणयोः देवान्प्रत्युदगमयत् तथाब्रह्मणाआत्मीयेनमन्त्रेणबलंसर्वस्यावरकमसुरंअभिनत् मन्त्रसामर्थ्येनाभैत्सीत् तदनन्तरंबलेनो त्पादितंतमः ध्वान्तंअगूहत् गुहूसंवरणे गूढमदृश्यमकरोत् तदनन्तरं स्वरादित्यंव्यचक्षयत् तमसोनि राकरणेनतत्स्थमदर्शयत् चष्टिःपश्यतिकर्मा ॥ ३ ॥