श्रवणम्

2.24.16
ब्रह्म᳚णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य᳚ बोधि॒ तन᳚यं च जिन्व ।
विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚णः । प॒ते॒ । त्वम् । अ॒स्य । य॒न्ता । सु॒॑उक्तस्य᳚ । बो॒धि॒ । तन᳚यम् । च॒ । जि॒न्व॒ ।
विश्व᳚म् । तत् । भ॒द्रम् । यत् । अव᳚न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेब्रह्मणस्पते यन्तासर्वस्यजगतोनियन्तात्वं अस्यसूक्तस्यइदंसूक्तं क्रियाग्रहणंकर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थेषष्ठि बोधि बुध्यस्व बुध्वातनयंपुत्रंचास्मभ्यं जिन्व प्रेरय जिविःप्रीणनार्थः अत्र प्रेरणेवर्तते धातूनामनेकार्थत्वात् यद्भद्रंकल्याणं देवाःसर्वे अवन्तिरक्षन्ति विश्वं सर्वं तद्भद्रंचजिन्वे तिशेषः वयंचसुवीराः शोभनैः वीरैः पुत्रपौत्रादिभिरुपेताःसन्तः बृहत्प्रौढं स्तोत्रं विदथेविदन्ति यष्टव्यतयास्मिन्देवान् जानन्तीतिविदथोयज्ञः तस्मिन्वदेमब्रूयाम ॥ १६ ॥

इन्धानइतिपञ्चर्चंतृतीयंसूक्तं गार्त्समदं जागतंब्राह्मणस्पत्यम् तथाचानुक्रान्तम्—इन्धानःपञ्चजा- गतन्त्विति लैङ्गिकोविनियोगः ।