श्रवणम्

2.6.4
स बो᳚धि सू॒रिर्म॒घवा॒ वसु᳚पते॒ वसु᳚दावन् ।
यु॒यो॒ध्य१॒᳚स्मद्द्वेषां᳚सि ॥
▶ पदपाठः (Word-by-word)
सः । बो॒धि॒ । सू॒रिः । म॒घवा᳚ । वसु᳚॑पते । वसु᳚॑दावन् ।
यु॒यो॒धि । अ॒स्मत् । द्वेषां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसुपतेधनपते वसुदावन् मघवाअन्नवान् सूरिर्विद्वान् प्रेरकोवा सउक्तलक्षणकस्त्वंबोधि बुद्ध्य- स्व अस्मदीयंस्तोत्रं किञ्च हेअग्ने देषांसिद्वेष्टॄनस्मद्स्मत्तोयुयोधि पृथक्कुरु ॥ ४ ॥