उ॒रु॒ष्यती॒मंह᳚सो॒ रक्ष᳚ती रि॒षों॒३॒᳚॑होश्चि᳚दस्मा उरु॒चक्रि॒रद्भु᳚तः ॥
पदपाठः (Word-by-word)
उ॒रु॒ष्यति᳚ । ई॒म् । अंह᳚सः । रक्ष᳚ति । रि॒षः । अं॒होः । चि॒त् । अ॒स्मै॒ । उ॒रु॒॑चक्रिः᳚ । अद्भु᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
योयजमानः अस्मैब्रह्मणस्पतये क्रियाग्रहणंकर्तव्यमितिकर्मणः संप्रदानत्वाच्चतुर्थी इमंब्रह्मणस्प- तिंघृतवद्भिः उपस्तरणभिघारणात्मकेनाज्येनोपेतैर्हव्यैर्हविर्भिः अविधत् परिचरति विधविधाने तौदादिकः अयंपरिचरण्कर्मसुपठितः तंयजमानं ब्रह्मणस्पतिः प्राचाप्राचीनेनऋजुनामार्गेण प्रणयति प्रकृष्टंफलंप्रापयति अपिचईमेनं अंहसःपापात् उरुष्यतिरक्षति उरुष्यतीरक्षाकर्मेतियास्कः । तथारि- षोर्हिंसकादेनंरक्षति अंहोश्चित् अवृत्तेर्दारिद्भ्यात् यद्वा आगत्यहंतुरपिरक्षति अपिचास्मै यजमानाया- अद्भुतः महन्नामैतत् आचार्यभूतोमहान्ब्रह्मणस्पतिः उरुचक्रिः उरोर्विस्तीर्णस्योपकारस्यकर्ताभवति ॥ ४ ॥
इमागिरइतिसप्तदशर्चंपञ्चमंसूक्तम् गृत्समदपुत्रस्यकूर्मस्यार्षं गृत्समदस्यैववात्रैष्टुभमादित्यदेवता कम् तथाचानुक्रान्तम्—इमागिरस्त्रयूनाकूर्मोगार्त्समदोहिवादित्यमिति सूक्तविनियोगोलैङ्गिकः आदित्यदेवताकेपशौपुरोडाशस्यइमागिरइत्येकानुवाक्या अग्नीषोमावितिखण्डेसूत्रितम्—इमागिर आदित्येभ्योघृतस्नूस्तआदित्यासउरवोगभीराइति ।