स इज्जने᳚न॒ स वि॒शा स जन्म᳚ना॒ स पु॒त्रैर्वाजं᳚ भरते॒ धना॒ नृभि᳚ः ।
दे॒वानां॒ यः पि॒तर᳚मा॒विवा᳚सति श्र॒द्धाम᳚ना ह॒विषा॒ ब्रह्म᳚ण॒स्पति᳚म् ॥
दे॒वानां॒ यः पि॒तर᳚मा॒विवा᳚सति श्र॒द्धाम᳚ना ह॒विषा॒ ब्रह्म᳚ण॒स्पति᳚म् ॥
पदपाठः (Word-by-word)
सः । इत् । जने᳚न । सः । वि॒शा । सः । जन्म᳚ना । सः । पु॒त्रैः । वाज᳚म् । भ॒र॒ते॒ । धना᳚ । नृ॑भिः᳚ ।
दे॒वाना᳚म् । यः । पि॒तर᳚म् । आ॒॑विवा᳚सति । श्र॒द्धा॑म᳚नाः । ह॒विषा᳚ । ब्रह्म᳚णः । पति᳚म् ॥
दे॒वाना᳚म् । यः । पि॒तर᳚म् । आ॒॑विवा᳚सति । श्र॒द्धा॑म᳚नाः । ह॒विषा᳚ । ब्रह्म᳚णः । पति᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
योयजमानःश्रद्धामनाः श्रद्धामनसियस्यतादृशःसन् देवानांपितरं पालयितारं ब्रह्मणस्पतिं हविषाचरुपुरोडाशादिना आविवासति परिचरति विवासतिःपरिचरणकर्मा सइत् सएवयजमानः जनेनजातेनसर्वेणलोकेनवाजमन्नंभरतेबिभर्ति संभरतिवा सएवविशाप्रजया आत्मीयेनबन्धुजनेन वाजंभरते सएवजन्मना सएवपुत्रैरात्मीयैरपत्यैर्वाजंभरते तथानृभिर्नेतृभिरन्यैः परिचारकैः धना- धनानिभरते बिभर्तिसंपादयतिवा ब्रह्मणस्पतिमिष्टवतोयजमानस्यसर्वतोजनाअन्नधनयोः साध- काभवन्तीतियावत् ॥ ३ ।