अ॒पां नपा᳚दाशु॒हेमा᳚ कु॒वित्स सु॒पेश᳚सस्करति॒ जोषि᳚ष॒द्धि ॥
पदपाठः (Word-by-word)
अ॒पाम् । नपा᳚त् । आ॒शु॒॑हेमा᳚ । कु॒वित् । सः । सु॒॑पेश᳚सः । क॒र॒ति॒ । जोषि᳚षत् । हि ॥
सायणभाष्यम् (Sayana Commentary)
वाजयुः वाजमन्नमात्मनइच्छ्न्नहंईमेनांवचस्यां वचसःस्तोत्रस्येच्छांउपासृक्षि उपासृजामि उ- त्पादयामि अपान्नपातंस्तोतुंप्रवृत्तोस्मीत्यर्थः सृजेश्छान्दसोलुङ् लिङ्सिचावात्मनेपदेष्विति सिचः कित्त्वाद्गुणाभावः सच नाद्योनदीनांशब्दकारिणीनांमेघस्थानामपांसंबन्धीआशुहेमाआशुशीघ्रंग न्ता हिगतावित्यस्मादन्येभ्योपिदृश्यन्तइतिमनिन् एवंभूतोऽपांनपात् अपांपौत्रस्थानीयः अद्भ्यओष धिवनस्पतयोजायन्ते ओषधिवनस्पतिभ्यएषोग्निर्जायतइतितत्पौत्रत्वं एतत्संज्ञकोदेवः गिरः गृणा- तीतिगीःस्तोता तस्यमे ममकुवित् बहुनामैतत् बहुलं चनः अन्नंदधीत दधातुविदधातु प्रयच्छत्वित्य- र्थः अपिचास्मान् सुपेशसः शोभनरूपान् शोभनालङ्कारान्वाकरोति करोतुकरोतेर्व्यत्ययेनशप् कः करत्करतिकृधिकृतेष्वनदितेरितिविसर्जनीयस्यसत्वम् हियस्मादयंदेवः जोषिषत् स्तोत्राणिसेवते तस्मादस्मानेवमनुगृह्णात्वित्यर्थः जुषीप्रीतिसेवनयोः लेट्यडागमः विकरणःसिप् इडागमश्च हिचे- तिनिघातप्रतिषेधः ॥ १ ॥