श्रवणम्

2.40.1
सोमा᳚पूषणा॒ जन᳚ना रयी॒णां जन᳚ना दि॒वो जन᳚ना पृथि॒व्याः ।
जा॒तौ विश्व᳚स्य॒ भुव᳚नस्य गो॒पौ दे॒वा अ᳚कृण्वन्न॒मृत᳚स्य॒ नाभि᳚म् ॥
▶ पदपाठः (Word-by-word)
सोमा᳚पूषणा । जन᳚ना । र॒यी॒णाम् । जन᳚ना । दि॒वः । जन᳚ना । पृ॒थि॒व्याः ।
जा॒तौ । विश्व᳚स्य । भुव᳚नस्य । गो॒पौ । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत᳚स्य । नाभि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमापूषणा हे सोमापूषणौ युवांरयीणांधनानां जनना जनयितारौ दिवः द्युलोकस्यापि जनना जनयितारौ पृथिव्याः प्रथितायाश्च जनना जनयितारौभवतः किंच जातौजातमात्रावेव युवांविश्वस्यभुवनस्य कृत्स्नस्यजगतः गोपौ गोप्तारौ देवाअमृतस्यामरणस्यनाभिं हेतुमकृण्वन् अकार्षुः ॥ १ ॥