श्रवणम्

2.4.6
आ यो वना᳚ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये᳚व स्वानीत् ।
कृ॒ष्णाध्वा॒ तपू᳚ र॒ण्वश्चि᳚केत॒ द्यौरि᳚व॒ स्मय᳚मानो॒ नभो᳚भिः ॥
▶ पदपाठः (Word-by-word)
आ । यः । वना᳚ । त॒तृ॒षा॒णः । न । भाति᳚ । वाः । न । प॒था । रथ्या᳚॑इव । स्वा॒नी॒त् ।
कृ॒ष्ण॑अ᳚ध्वा । तपुः᳚ । र॒ण्वः । चि॒के॒त॒ । द्यौः॑इ᳚व । स्मय᳚मानः । नभः᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निर्वनावनानिवृक्षसमूहान् ततृषाणोनतृषितइव त्वरमाणइत्यर्थः आभातिआभासयति ददह- तीत्यर्थः यद्वा वनावनेआभाति किञ्चवार्णउदकमिव पथाप्रवणेनमार्गेणगच्छति तद्वत् इतस्ततोगच्छ- ति रथ्येवरथस्यवोढाश्वइवस्वानीत् शब्दयति यद्वा रथशब्दात् सोर्ड्यादेशः यथारथोयुद्धमार्गेणगच- च्छन् स्वनतितद्वत् किञ्च कृष्णाध्वाकृष्णवर्त्मा तपुस्तापकः रण्वोरमणीयः एवंभूतः सन् चिकेतज्ञाय- ते प्रकाशतइत्यर्थः कइव नभोभिर्नक्षत्रैः स्मयमानः प्रकाशमानोद्यौरिवद्युलोकइव यद्वा नभोभिरन्त- रिक्षप्रदेशविशेषैः स्मयमानः शोभमानोद्यौरादित्यइवनीलवर्णांतरिक्षचार्यादित्योयथाज्ञायतेतद्वत् स्वसंचारेणकृष्णीभूतेमार्गेज्ञायते प्रकाशयतइत्यर्थः ॥ ६ ॥