श्रवणम्

2.15.5
स ईं᳚ म॒हीं धुनि॒मेतो᳚ररम्णा॒त्सो अ᳚स्ना॒तॄन᳚पारयत्स्व॒स्ति ।
त उ॒त्स्नाय᳚ र॒यिम॒भि प्र त᳚स्थु॒ः सोम᳚स्य॒ ता मद॒ इन्द्र᳚श्चकार ॥
▶ पदपाठः (Word-by-word)
सः । ई॒म् । म॒हीम् । धुनि᳚म् । एतोः᳚ । अ॒र॒म्णा॒त् । सः । अ॒स्ना॒तॄन् । अ॒पा॒र॒य॒त् । स्व॒स्ति ।
ते । उ॒त्॑स्नाय᳚ । र॒यिम् । अ॒भि । प्र । त॒स्थुः॒ । सोम᳚स्य । ता । मदे᳚ । इन्द्रः᳚ । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइन्द्रः ईमेनांमहींमहतीं धुनिं धुनोतिस्तोतॄणांपापानीतिधुनिः परुष्णीनदी तां एतोः ईश्वर- पदासन्निधानेपि तोसुन्प्रत्ययः ऋषीणांगमनार्थंअरम्णात् उपाशमयत् महाजलांनदींअल्पोदकाम- करोदित्यर्थः सइन्द्रः अस्नातॄन् स्नातुमशक्तान् तरणासमर्थानृषीन् स्वस्तिक्षेमेणअपरयत् तेमहर्षयः उत्स्नायतांनदीमुत्तीर्ययंरयिमपेक्ष्यगच्छन्ति तंरयिंअभिलक्ष्यप्रतस्थुः प्रतस्थिरे शिष्टंसिद्धम् ॥ ५ ॥