श्रवणम्

2.12.5
यं स्मा᳚ पृ॒च्छन्ति॒ कुह॒ सेति᳚ घो॒रमु॒तेमा᳚हु॒र्नैषो अ॒स्तीत्ये᳚नम् ।
सो अ॒र्यः पु॒ष्टीर्विज᳚ इ॒वा मि᳚नाति॒ श्रद᳚स्मै धत्त॒ स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यम् । स्म॒ । पृ॒च्छन्ति᳚ । कुह᳚ । सः । इति᳚ । घो॒रम् । उ॒त । ई॒म् । आ॒हुः॒ । न । ए॒षः । अ॒स्ति॒ । इति᳚ । ए॒न॒म् ।
सः । अ॒र्यः । पु॒ष्टीः । विजः᳚॑इव । आ । मि॒ना॒ति॒ । श्रत् । अ॒स्मै॒ । ध॒त्त॒ । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपश्यन्तोजनाघोरंशत्रूणांघातकंयंपृच्छन्तिस्मकुहसेति सइन्द्रः कुत्रवर्ततइति सेति सोचिलोपे- चेत्पादपूरणमितिसोर्लोपेगुणः नक्वचिदसौतिष्ठतीतिमन्यमानाजनाएनमिन्द्रमाहुः एषइन्द्रोनास्तीति तथाचमन्त्रे—नेन्द्रोअस्तीतिनेमउत्वआहेति । ईमितिपूरणः उतापिचसइन्द्रोविजइव इवशब्दएवार्थे उद्वेजकएवसन् अर्योरेःसंबन्धीनिपुष्टीः पोषकाणि गवाश्वादीनिधनानि आमिनाति सर्वतोहिनस्ति मीङ् हिंसायां मीनातेर्निगमेइतिह्रस्वः तस्मात् श्रदस्माइन्द्रायधत्तसइन्द्रोस्तीतिविश्वासमत्रकुरुत यद्यप्यसौविशेषतोस्माभिर्नदृश्यते तथापिअस्तीतिविश्वासंकुरुत एवंनिर्धारणमहिमोपेतः सइन्द्रोना- हमिति ॥ ५ ॥