श्रवणम्

2.12.8
यं क्रन्द᳚सी संय॒ती वि॒ह्वये᳚ते॒ परे॑व᳚र उ॒भया᳚ अ॒मित्रा᳚ः ।
स॒मा॒नं चि॒द्रथ᳚मातस्थि॒वांसा॒ नाना᳚ हवेते॒ स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यम् । क्रन्द᳚सी॒ इति᳚ । सं॒य॒ती इति᳚ स॒म्॑य॒ती । वि॒ह्वये᳚ते॒ इति᳚ वि॒॑ह्वये᳚ते । परे᳚ । अव᳚रे । उ॒भयाः᳚ । अ॒मित्राः᳚ ।
स॒मा॒नम् । चि॒त् । रथ᳚म् । आ॒त॒स्थि॒॑वांसा᳚ । नाना᳚ । ह॒वे॒ते॒ इति᳚ । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यंक्रन्दसीरोदसीशब्दंकुर्वाणेमानुषीदेवीचद्वेसेनेवासंयती परस्परंसङ्गच्छन्त्यौयमिन्द्रंविह्वयेते स्वरक्षार्थंविविधमाह्वयतः परेउत्कृष्टाः अवरेअधमाश्चोभयाः उभयविधाः अमित्राः शत्रवः यमाह्व- यन्ति समानंइन्द्ररथसदृशंरथमातस्थिवांसाआस्थितौद्वौरथिनौचित् तमेवेन्द्रंनानापृथक् पृथक् हवेते- आह्वयेते यद्वा समानमेकरथमारूढाविन्द्राग्नीहवेतेयज्ञार्थंयजमानैः पृथगाहूयेते तयोरन्यतरःसइन्द्रो- नाहमिति ॥ ८ ॥