अ॒मा॒जूरि᳚व पि॒त्रोः सचा᳚ स॒ती स᳚मा॒नादा सद᳚स॒स्त्वामि᳚ये॒ भग᳚म् ।
कृ॒धि प्र᳚के॒तमुप᳚ मा॒स्या भ᳚र द॒द्धि भा॒गं त॒न्वो॒३॒᳚ येन᳚ मा॒महः᳚ ॥
कृ॒धि प्र᳚के॒तमुप᳚ मा॒स्या भ᳚र द॒द्धि भा॒गं त॒न्वो॒३॒᳚ येन᳚ मा॒महः᳚ ॥
पदपाठः (Word-by-word)
अ॒मा॒जूः॑इ᳚व । पि॒त्रोः । सचा᳚ । स॒ती । स॒मा॒नात् । आ । सद᳚सः । त्वाम् । इ॒ये॒ । भग᳚म् ।
कृ॒धि । प्र॒॑के॒तम् । उप᳚ । मा॒सि॒ । आ । भ॒र॒ । द॒द्धि । भा॒गम् । त॒न्वः᳚ । येन᳚ । म॒महः᳚ ॥
कृ॒धि । प्र॒॑के॒तम् । उप᳚ । मा॒सि॒ । आ । भ॒र॒ । द॒द्धि । भा॒गम् । त॒न्वः᳚ । येन᳚ । म॒महः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र अमाजूःइव यावज्जीवंगृहेएवजीर्यन्ती पित्रोः सचा मात्रापितृभ्यांसहभवन्ती तयोः शुश्रू- षणपरापतिमलभमानासतीदुहिता समानादात्मनःपित्रोश्चसाधारणात् सदसोगृहात् अधिकरणेचो- पसंख्यानमितिपञ्चमी गृहउपस्थायैवयथाभागंयाचतितथास्तोताहंभगंभजनीयं धनं त्वामिये ईगत्या दिषु लिट्युत्तमइतिव्यत्ययेनात्मनेपदं इयङादेशः त्वांयाचे तत्रदेयंधनंप्रकेतंप्रकर्षेणज्ञातव्यंविश्वज- नीयंकृधिकुरु तत्रउपमासि एतावदिदंधनमितिकुरु आभर तत्रधनंसंपादय भागंभजनीयंधनंतन्वः शरीरायमह्यमितियावत् दद्धिदेहि येनधनेन ममहः स्तोतॄनिमान् आपूजयसि ॥ ७ ॥