श्रवणम्

2.17.8 समानपद
भो॒जं त्वामि᳚न्द्र व॒यं हु᳚वेम द॒दिष्ट्वमि॒न्द्रापां᳚सि॒ वाजा᳚न् ।
अ॒वि॒ड्ढी᳚न्द्र चि॒त्रया᳚ न ऊ॒ती कृ॒धि वृ᳚षन्निन्द्र॒ वस्य᳚सो नः ॥
▶ पदपाठः (Word-by-word)
भो॒जम् । त्वाम् । इ॒न्द्र॒ । व॒यम् । हु॒वे॒म॒ । द॒दिः । त्वम् । इ॒न्द्र॒ । अपां᳚सि । वाजा᳚न् ।
अ॒वि॒ड्ढि । इ॒न्द्र॒ । चि॒त्रया᳚ । नः॒ । ऊ॒ती । कृ॒धि । वृ॒ष॒न् । इ॒न्द्र॒ । वस्य᳚सः । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र भोजंपालयितारंभोजयितारंवात्वांवयंहुवेम ह्वयतेर्लिङिबहुलंछन्दसीतिसंप्रसारणम् हे- इन्द्र त्वंअपांसिकर्माणिवाजानन्नानिददिः दाण् दाने आदृगमहनजनइतिकिप्रत्ययः लिङ्वद्भावाद- भ्यासादिकार्यम् नलोकाव्ययनिष्ठेतिषष्ठीप्रतिषेधः दाताखलु हेइन्द्र चित्रयानानाप्रकारयाऊतीऊत्या- पालनेननोस्मानविड्ढिरक्ष वृषन् कामानांवर्षकहेइन्द्र नोस्मान् वस्यसः अतिशयेनवसुमतः कृधिकुरु ॥ ८ ॥