श्रवणम्

2.17.4
अधा॒ यो विश्वा॒ भुव᳚ना॒भि म॒ज्मने᳚शान॒कृत्प्रव᳚या अ॒भ्यव᳚र्धत ।
आद्रोद᳚सी॒ ज्योति᳚षा॒ वह्नि॒रात᳚नो॒त्सीव्य॒न्तमां᳚सि॒ दुधि᳚ता॒ सम᳚व्ययत् ॥
▶ पदपाठः (Word-by-word)
अध᳚ । यः । विश्वा᳚ । भुव᳚ना । अ॒भि । म॒ज्मना᳚ । ई॒शा॒न॒॑कृत् । प्र॑व᳚याः । अ॒भि । अव᳚र्धत ।
आत् । रोद᳚सी॒ इति᳚ । ज्योति᳚षा । वह्निः᳚ । आ । अ॒त॒नो॒त् । सीव्य᳚न् । तमां᳚सि । दुधि᳚ता । सम् । अ॒व्य॒य॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधापिचप्रवयाः प्रवृद्धान्नः पुरातनोवायइन्द्रः विश्वाभुवनासर्वान् लोकान् मज्मनाबलेनअभि- अभिभूयईशानकृत् आत्मानंसर्वस्याधिपतिंकुर्वन् यद्वा अग्र्यादीन् देवान् तत्तल्लोकाधिपतीन्कुर्वन् अभ्यवर्धत सर्वतःप्रवृद्धोभवत् आदनन्तरं वह्निः जगतांवोढासइन्द्रः ज्योतिषास्वीयेनतेजसारोदसी द्यावापृथिव्यावातनोत् व्याप्नोत् किञ्च तमांसितमोरूपाणि रक्षांसिदुधितादुःस्थानिदुर्गतानिसीव्यन् विस्तारयन् समव्ययत् आवृणोत् जगद्भ्याप्यवर्ततइत्यर्थः ॥ ४ ॥