श्रवणम्

2.17.3
अधा᳚कृणोः प्रथ॒मं वी॒र्यं᳚ म॒हद्यद॒स्याग्रे॒ ब्रह्म᳚णा॒ शुष्म॒मैर᳚यः ।
र॒थे॒ष्ठेन॒ हर्य᳚श्वेन॒ विच्यु᳚ता॒ः प्र जी॒रयः᳚ सिस्रते स॒ध्र्य१॒᳚क्पृथ᳚क् ॥
▶ पदपाठः (Word-by-word)
अध᳚ । अ॒कृ॒णोः॒ । प्र॒थ॒मम् । वी॒र्य᳚म् । म॒हत् । यत् । अ॒स्य॒ । अग्रे᳚ । ब्रह्म᳚णा । शुष्म᳚म् । ऐर᳚यः ।
र॒थे॒॑स्थेन᳚ । हरि᳚॑अश्वेन । वि॑च्यु᳚ताः । प्र । जी॒रयः᳚ । सि॒स्र॒ते॒ । स॒ध्र्य᳚क् । पृथ᳚क् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधापिच हेइन्द्र त्वंप्रथमंमुख्यंहद्वीर्यंसामर्थ्यमकृणोरकरोः किंतत् ब्रह्मणास्तोत्रेणस्तुतिसाधन- भूतेनवेदवाक्येनास्यवीर्यम्यस्तोतुर्जनस्याग्रेपुरतः यत् शुष्मंशत्रूणांशोषकंबलमैरयः उदगमयः जीर- योजरयितारोबधकाअसुराः रथेष्ठेनरथस्थितेनहर्यश्वेनत्वयाविच्युताः स्वस्थानात् च्याविताःसन्तः सध्र्यक् सध्रीचीनाः परस्परंसंगताः पृथक् भीत्यावियुक्ताःसन्तः प्रसिस्रते प्रकर्षेणधावंति स्रुगतौ जु- होत्यादिः बहुलंछन्दसीत्यभ्यासस्येत्वं सध्र्यगितिसहस्यसध्रिरितिसध्र्यादेशः अद्रिसध्र्योरन्तोदात्तत्वे- ननिपातनादुदात्तस्वरितयोरितियणःस्वरितत्वम् ॥ ३ ॥