श्रवणम्

2.31.6 समानपद
उ॒त व॒ः शंस᳚मु॒शिजा᳚मिव श्म॒स्यहि᳚र्बु॒ध्न्यो॒३॒᳚॑ज एक᳚पादु॒त ।
त्रि॒त ऋ᳚भु॒क्षाः स᳚वि॒ता चनो᳚ दधे॒॑पां नपा᳚दाशु॒हेमा᳚ धि॒या शमि᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । वः॒ । शंस᳚म् । उ॒शिजा᳚म्॑इव । श्म॒सि॒ । अहिः᳚ । बु॒ध्न्यः᳚ । अ॒जः । एक᳚॑पात् । उ॒त ।
त्रि॒तः । ऋ॒भु॒क्षाः । स॒वि॒ता । चनः᳚ । द॒धे॒ । अ॒पाम् । नपा᳚त् । आ॒शु॒॑हेमा᳚ । धि॒या । शमि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतअपिच हेदेवाः उशिजामिव इवेतिसंप्रत्यर्थीयः अस्मात्तः स्तुतिं कामयमानानांवोयुष्मा- कंशंसंस्तुतिंसंप्रतिश्मसि उश्मसि कामयामहे वशकान्तौ इदन्तोमसिः ग्रहिज्यादिनासम्प्रसारणम् छान्दसोवर्णलोपः उतअपिच अहिर्बुध्यः बुध्रमन्तरिक्षम् तत्रभवोऽहिनामादेवः अजएकपात् न- जायतइत्यजः एकएवपद्यतेगच्छतीत्येकपात् अजएकपात् संज्ञकः सूर्यः त्रितस्तीर्णतमः ऋभुक्षाः उरुक्षयः उरुनिवासः ऋभूणांनिवासयितावा इन्द्रश्चसवितासर्वस्यप्रसविताचनोन्नंदधे विदधातु अस्मभ्यंकरोतु तथा आशुहेमाशीघ्रगामी हिगतावित्यस्मादन्येभ्योपिदृश्यन्तइतिमनिन् तादृशः अपांनपात् अपांपौत्रीयस्थानीयोग्निः अद्भ्यओषधिवनस्पतयोजायन्ते ओषधिवनस्यतिभ्यश्चायम- ग्निर्जायते इत्यग्नेरपांपौत्रत्वम् सचधियास्तुत्याशमि शमीतिकर्मनाम यज्ञकर्मणिप्रीतोभवत्विति- शेषः यद्वा धियाकर्मणाअस्मदीयेनपरिचरणलक्षणेनशमि शंसुखंतन्निमित्तंभवत्वितिशेषः ॥ ६ ॥