उ॒त स्य दे॒वो भुव᳚नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभि᳚ः स॒जोषा᳚ जूजुव॒द्रथ᳚म् ।
इळा॒ भगो᳚ बृहद्दि॒वोत रोद᳚सी पू॒षा पुरं᳚धिर॒श्विना॒वधा॒ पती᳚ ॥
इळा॒ भगो᳚ बृहद्दि॒वोत रोद᳚सी पू॒षा पुरं᳚धिर॒श्विना॒वधा॒ पती᳚ ॥
पदपाठः (Word-by-word)
उ॒त । स्यः । दे॒वः । भुव᳚नस्य । स॒क्षणिः᳚ । त्वष्टा᳚ । ग्नाभिः᳚ । स॒॑जोषाः᳚ । जू॒जु॒व॒त् । रथ᳚म् ।
इळा᳚ । भगः᳚ । बृ॒ह॒त्॑दि॒वा । उ॒त । रोद᳚सी॒ इति᳚ । पू॒षा । पुर᳚म्॑धिः । अ॒श्विनौ᳚ । अध᳚ । पती॒ इति᳚ ॥
इळा᳚ । भगः᳚ । बृ॒ह॒त्॑दि॒वा । उ॒त । रोद᳚सी॒ इति᳚ । पू॒षा । पुर᳚म्॑धिः । अ॒श्विनौ᳚ । अध᳚ । पती॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
उतअपिच स्यःसदेवोदानादिगुणयुक्तः भुवनस्यभूतजातस्यसक्षणिः सचनीयः सेव्यः ग्नाभिर्दे- वपत्नीभिः छंदांसिवैग्नाइतितैत्तिरीयकम् । गायत्र्यादीनिच्छन्दांसिचदेवपत्न्यइत्युक्तम् सजोषाः समानप्रीतिः एवंगुणविशिष्टस्त्वष्टाअस्मदीयंरथंजूजुवत् प्रेरयतु जुइतिसौत्रोधातुर्गत्यर्थः अस्मा- ण्ण्यन्ताल्लुङिरूपम् तथा इळातिसृणांदेवीनामाद्याइडाख्यादेवीचरथंप्रेरयतु बृहद्दिवा बृहन्म- हन्महृद्दीव्यतिद्योततइतिब्रुहद्दिवः इगुपधलक्षणःकः सुपांसुलुगितिविभक्तेरोकारः तादृशोभगश्च- प्रेरयतु उतअपिचरोदसीद्यावापृथिव्यौपुरंधिर्बहुधीः पूषापोषकोदेवश्चअधशब्दश्चार्थे पती सूर्या- याभर्तारौअश्विनौचएतेसर्वेअस्मदीयंरथंप्रेरथंप्रेरयन्त्वित्यर्थः ॥ ४ ॥