श्रवणम्

2.18.4 समानपद
आ द्वाभ्यां॒ हरि᳚भ्यामिन्द्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा᳚नः ।
आष्टा॒भिर्द॒शभि᳚ः सोम॒पेय᳚म॒यं सु॒तः सु᳚मख॒ मा मृध᳚स्कः ॥
▶ पदपाठः (Word-by-word)
आ । द्वाभ्या᳚म् । हरि᳚॑भ्याम् । इ॒न्द्र॒ । या॒हि॒ । आ । च॒तुः॑भिः᳚ । आ । ष॒ट्॑भिः । हू॒यमा᳚नः ।
आ । अ॒ष्टा॒भिः । द॒श॑भिः᳚ । सो॒म॒॑पेय᳚म् । अ॒यम् । सु॒तः । सु॒॑म॒ख॒ । मा । मृधः᳚ । क॒रिति᳚ कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र होतृभिराहूयमानस्त्वं द्वाभ्यांहरिभ्यामश्वाभ्यामिमंयज्ञंप्रति सोमपानार्थमायाहि चतुर्भि- र्हरिभिरायाहि तथाषड्भिरागच्छ सोमपेयं पापाने कर्मणिअचोयत् ईद्यतीतीत्वं पातव्यंसोमंप्रतिअ- ष्टाभिरश्वैरायाहि अष्टनोदीर्घादितिविभक्तेरुदात्तत्वं दशभिर्हरिभिरागच्छ सुमख सुयज्ञ सुधनवा हेइन्द्र अयंसोमस्त्वदर्थंसुतः अभिषुतः अतोयज्ञस्यमृधोहिंसाः माकः माकार्षीः करोतेर्लुङिमन्त्रेघसे- त्यादिनाचेर्लुक् गुणेकृते हल्ङ्यादिनासिपोलोपः यद्यपीन्द्रस्यद्वावेवहरीतथापितयोर्विभूतिभेदान्ना- नात्वं अतोश्वबहुत्वमविरुद्धम् ॥ ४ ॥