श्रवणम्

2.23.6
त्वं नो᳚ गो॒पाः प᳚थि॒कृद्वि᳚चक्ष॒णस्तव᳚ व्र॒ताय᳚ म॒तिभि᳚र्जरामहे ।
बृह᳚स्पते॒ यो नो᳚ अ॒भि ह्वरो᳚ द॒धे स्वा तं म᳚र्मर्तु दु॒च्छुना॒ हर᳚स्वती ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । गो॒पाः । प॒थि॒॑कृत् । वि॒॑च॒क्ष॒णः । तव᳚ । व्र॒ताय᳚ । म॒ति॑भिः᳚ । ज॒रा॒म॒हे॒ ।
बृह᳚स्पते । यः । नः॒ । अ॒भि । ह्वरः᳚ । द॒धे । स्वा । तम् । म॒र्म॒र्तु॒ । दु॒च्छुना᳚ । हर᳚स्वती ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबृहस्पते त्वंनोस्माकं गोपाः पालयिता पथिकृत्सन्मार्गकृच्चभवसि विचक्षणः विशेषेण द्रष्टासर्व ज्ञस्त्वं तवव्रतायत्वत्संबन्धिनेयज्ञाय मतिभिःस्तोत्रैःजरामहे स्तुमः जरतिःस्तुतिकर्मा यःपुमान्नोस्मा नभिअभिलक्ष्यह्वरः ह्वृकौटिल्येभावेअसुन् कौटिल्यंदधेविदधाति तंस्वावीयादुच्छुनादुर्बुद्धिः हरस्व ती वेगवतीसती मर्मर्तु मारयतु मृङ्प्राणत्यागे अन्तर्भावितण्यर्थस्य यङ्लुकिलोटिरूपम् ॥ ६ ॥