श्रवणम्

2.23.14
तेजि᳚ष्ठया तप॒नी र॒क्षस᳚स्तप॒ ये त्वा᳚ नि॒दे द᳚धि॒रे दृ॒ष्टवी᳚र्यम् ।
आ॒विस्तत्कृ᳚ष्व॒ यदस᳚त्त उ॒क्थ्यं१॒᳚ बृह᳚स्पते॒ वि प᳚रि॒रापो᳚ अर्दय ॥
▶ पदपाठः (Word-by-word)
तेजि᳚ष्ठया । त॒प॒नी । र॒क्षसः᳚ । त॒प॒ । ये । त्वा॒ । नि॒दे । द॒धि॒रे । दृ॒ष्ट॑वी᳚र्यम् ।
आ॒विः । तत् । कृ॒ष्व॒ । यत् । अस᳚त् । ते॒ । उ॒क्थ्य᳚म् । बृह᳚स्पते । वि । प॒रि॒॑रपः᳚ । अ॒र्द॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबृहस्पते तेजिष्ठयातिशयेनतिग्मया तपनीतापकारिण्यहेत्यारक्षसोराक्षसांस्तप तापय येरा क्षसाः दृष्टवीर्यंयुद्धेषुदृष्टपराक्रमं त्वात्वांनिदेनिन्दायाविषयंदधिरे कृतवन्तः तान् तापयेतिसमन्वयः तेतवउक्थ्यंसर्वैःप्रशंसनीयंयद्वीर्यमसत्पूर्वमासीत् तदधुनाआविष्कृष्व प्रकटीकुरु तेनचवीर्येणपरि रापः परिवदतोनिन्द्रकानसुरान् व्यर्दय विशेषेणबाधस्व ॥ १४ ॥ बार्हस्पत्येपशौएषाहविषोनुवाक्या प्रदानानामितिखण्डेसूत्रितम्—बृहस्पतेअतियदर्थोअर्हात्त म्रुत्वियाउपवाचःसचन्तइति एषैवाश्विनशस्त्रेपरिधानीया सूत्रितञ्च—बृहस्पतेअतियदर्योअर्हादिति परिधानीयेति ।