श्रवणम्

2.23.8
त्रा॒तारं᳚ त्वा त॒नूनां᳚ हवाम॒हे॑व᳚स्पर्तरधिव॒क्तार᳚मस्म॒युम् ।
बृह᳚स्पते देव॒निदो॒ नि ब᳚र्हय॒ मा दु॒रेवा॒ उत्त᳚रं सु॒म्नमुन्न᳚शन् ॥
▶ पदपाठः (Word-by-word)
त्रा॒तार᳚म् । त्वा॒ । त॒नूना᳚म् । ह॒वा॒म॒हे॒ । अव᳚॑स्पर्तः । अ॒धि॒॑व॒क्तार᳚म् । अ॒स्म॒युम् ।
बृह᳚स्पते । दे॒व॒॑निदः᳚ । नि । ब॒र्ह॒य॒ । मा । दुः॒॑एवाः᳚ । उत्॑त᳚रम् । सु॒म्नम् । उत् । न॒श॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अवस्पर्तः उपद्रवेभ्यः पारयितः यद्वा अवसारक्षणेनआपद्भ्यः पारयितः हेबृहस्पते तनूनामङ्गानां पुत्रादीनांवात्रातारंपालयिता धिवक्तारं अस्मासुपक्षपातेनअधिकंवक्तारं अस्मयुं हविःप्रदानस्मान् कामयमानं त्वात्वांहवामहे अस्मिन्कर्मणिआह्वयामः किञ्च देवनिदोदेवनिन्दकानसुरान्निबर्हय विना शय दुरेवाः दुष्टगमनादुर्बुद्धयः शत्रवः उत्तरंउत्कृष्टतरं सुम्नंसुखंमाउन्नशन् माव्याप्नुवन्तु ॥ ८ ॥