श्रवणम्

2.23.16 समानपद
मा नः᳚ स्ते॒नेभ्यो॒ ये अ॒भि द्रु॒हस्प॒दे नि᳚रा॒मिणो᳚ रि॒पवो॑न्ने᳚षु जागृ॒धुः ।
आ दे॒वाना॒मोह᳚ते॒ वि व्रयो᳚ हृ॒दि बृह᳚स्पते॒ न प॒रः साम्नो᳚ विदुः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । स्ते॒नेभ्यः᳚ । ये । अ॒भि । द्रु॒हः । प॒दे । नि॒रा॒मिणः᳚ । रि॒पवः᳚ । अन्ने᳚षु । ज॒गृ॒धुः ।
आ । दे॒वाना᳚म् । ओह᳚ते । वि । व्रयः᳚ । हृ॒दि । बृह᳚स्पते । न । प॒रः । साम्नः᳚ । वि॒दुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबृह्स्प्ते नोस्मान् स्तेनेभ्यः स्त्यानमस्तियेषुइतिस्तेनाश्चौराः तेभ्योमादाः तान् दर्शयति येचौरा द्रुहः प्राणद्रोहस्यपदेस्थानेनिरामिणः नितरांरमणशीलाः रिपवः हिंसकाःसन्तः अन्नेषुपरकीयेषु अभि जागृधुः अभिकांक्षन्ति गृधुअभिकांक्षायां लिटिरूपं येचदेवानांविव्रयः विविशेषेणवर्जनं व्रीव्लीइति धातूवर्जनेवर्तेते यएवंविद्वान्दक्षिणांप्रतिगृह्णातिनैनंदक्षिणाव्लीनातीतिएकस्यवर्जनार्थेदृष्टत्वादपर स्यापिवर्जनार्थत्वम् तत् हृदिस्वकीयेहृदयेआओहतेआवहन्ति देवानांयागान्स्तुतींश्चनकरवामेतिमन्य न्तइतियावत् तेभ्योस्मान्मादाइतिसमन्वयः येपुमांसः साम्नः साममयात्त्वत्तः परः परस्तादन्यदुत्कृष्टं सामयद्रक्षोघ्रं सामवैरक्षोहमितिश्रुतेः । नविदुर्नजानन्ति किन्तु सर्वसाधकंसामत्वामेवविदुषोस्मान् स्तेनेभ्योमादाः ॥ १६ ॥