श्रवणम्

2.19.7
ए॒वा त᳚ इन्द्रो॒चथ᳚महेम श्रव॒स्या न त्मना᳚ वा॒जय᳚न्तः ।
अ॒श्याम॒ तत्साप्त᳚माशुषा॒णा न॒नमो॒ वध॒रदे᳚वस्य पी॒योः ॥
▶ पदपाठः (Word-by-word)
ए॒व । ते॒ । इ॒न्द्र॒ । उ॒चथ᳚म् । अ॒हे॒म॒ । श्र॒व॒स्या । न । त्मना᳚ । वा॒जय᳚न्तः ।
अ॒श्याम᳚ । तत् । साप्त᳚म् । आ॒शु॒षा॒णाः । न॒नमः᳚ । वधः᳚ । अदे᳚वस्य । पी॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र श्रवस्या सुपांसुलुगितितृनीयायाःपूर्वसवर्णदीर्घः अन्नेच्छयावाजयन्तः त्वांबलिनकुर्वन्तः यद्वा श्रवस्यायशःकामनया वाजयन्तोन्नमिच्छन्तः इच्छायामपिणिच् दृश्यते अश्वायन्तोगव्यन्तोवाज यन्तइतिक्यजन्तत्वेचित्प्रातिपदिकस्यान्तोदात्तत्वंस्यात् वाजयन्तःश्तक्रतुमितियथा तादृशावयंतेएव तुभ्यमेव उचथंस्तोत्रं त्मना आत्मनास्वयमेव नअहेम इदानींप्रापयेम अहिगतौ नसम्प्रत्यर्थे आशुषा- णाः अश्नोतेःकानचिव्यत्ययोबहुलमितिलिट्यपिविकरणद्वयं उप्रत्ययः त्वामश्नुवानाः वयंतदभिलषितं तत्साप्तंसप्तपुरुषसंबन्धि साप्तपदीनंसख्यं अश्याम व्याप्नुयाम अदेवस्य देवानिन्द्रादीनजानतः पीयोः पीयतिर्हिंसकर्मा हिंसकस्यासुरस्यवधः वध्यन्तेशत्रवोनेनेतिवधरायुधंननमः तत् अधोनमय ननमः णमुप्रह्वत्वे ण्यंतस्यलुङिचङिरूपं मितांह्रस्वइतिह्रस्वः ॥ ७ ॥