श्रवणम्

2.27.14
अदि᳚ते॒ मित्र॒ वरु᳚णो॒त मृ᳚ळ॒ यद्वो᳚ व॒यं च᳚कृ॒मा कच्चि॒दागः᳚ ।
उ॒र्व᳚श्या॒मभ᳚यं॒ ज्योति᳚रिन्द्र॒ मा नो᳚ दी॒र्घा अ॒भि न᳚श॒न्तमि᳚स्राः ॥
▶ पदपाठः (Word-by-word)
अदि᳚ते । मित्र᳚ । वरु᳚ण । उ॒त । मृ॒ळ॒ । यत् । वः॒ । व॒यम् । च॒कृ॒म । कत् । चि॒त् । आगः᳚ ।
उ॒रु । अ॒श्या॒म् । अभ᳚यम् । ज्योतिः᳚ । इ॒न्द्र॒ । मा । नः॒ । दी॒र्घाः । अ॒भि । न॒श॒न् । तमि᳚स्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतअपिच हेअदिते मित्र वरुण आमन्त्रितंपूर्वमविद्यमानवदिति पूर्वपूर्वस्यामन्त्रितस्याविद्यमा नवद्भावात् सर्वेषांषाष्ठिकमामन्त्रितस्येत्याद्युदात्तत्वम यूयंप्रत्येकंमृळ अस्माकमुपरिदयांकुरु रक्षेत्य- र्थः यत् यद्यपिवयंवोयुष्माकंकच्चित् किञ्चदागापराधंचकृम अकर्मतथापिमृळेत्यर्थः हेइन्द्र परमैश्व- र्योपेतादित्य उरुविस्तीर्णंअभयंभयरहितंज्योतिस्त्वदीयंप्रकाशंज्ञानात्मकंवाअश्यां अहंप्राप्नुयाम् दीर्घाविस्तृतास्तमिस्रास्तमसायुक्तानिशाः ज्योत्स्नातमिस्राशृङ्गिणेतिनिपात्यते तानोस्मान् माभिनशन् आभिमुख्येनव्याप्नुवन्तु ॥ १४ ॥