धा॒रय᳚न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व᳚स्य॒ भुव᳚नस्य गो॒पाः ।
दी॒र्घाधि᳚यो॒ रक्ष᳚माणा असु॒र्य᳚मृ॒तावा᳚न॒श्चय᳚माना ऋ॒णानि᳚ ॥
दी॒र्घाधि᳚यो॒ रक्ष᳚माणा असु॒र्य᳚मृ॒तावा᳚न॒श्चय᳚माना ऋ॒णानि᳚ ॥
पदपाठः (Word-by-word)
धा॒रय᳚न्तः । आ॒दि॒त्यासः᳚ । जग᳚त् । स्थाः । दे॒वाः । विश्व᳚स्य । भुव᳚नस्य । गो॒पाः ।
दी॒र्घ॑धि᳚यः । रक्ष᳚माणाः । अ॒सु॒र्य᳚म् । ऋ॒त॑वा᳚नः । चय᳚मानाः । ऋ॒णानि᳚ ॥
दी॒र्घ॑धि᳚यः । रक्ष᳚माणाः । अ॒सु॒र्य᳚म् । ऋ॒त॑वा᳚नः । चय᳚मानाः । ऋ॒णानि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
जगज्जङ्गमं स्थाः स्थावरंच तिष्ठतेःकर्तर्यसुन् एतदुभयविधंभूतजातं धारयन्तः अवस्थापयन्तः देवाः दानादिगुणयुक्ताः विश्वस्यभूवनस्यसर्वस्यलोकस्यगोपाः गोपयितारोरक्षकाः दीर्घाधियः दीर्घा णिधियःकर्माणिज्ञानानिवायेषांतादृशाः अन्येषामपिदृश्यतइतिपूर्वपदस्यदीर्घः असुर्यं असवःप्राणाः तेनचतद्धेतुभूताः आपोलक्ष्यन्ते अपांतद्धेतुत्वंच छान्दोग्र्येस्पष्टमाम्नातम्—आपामयःप्राणइति असुमु- दकंरातिददातीत्यसुरोमेघः तत्रभवं मेघान्तर्वर्तमानमुदकंरक्षमाणाः तत्तत्कालेवृष्ट्युत्पादनायरक्षन्तः असुरशब्दाद्भवेछन्दसीतियत् ऋतावानः सत्यवन्तो यज्ञवन्तोवा छन्दसीवनिपावितिमत्वर्थीयो- वनिप् पूर्ववद्दीर्घः ऋणानिस्तोतृभिः अन्येभ्यः प्रदेयानिहविर्द्रव्याणिचयमानाः अपगमयन्तः चय- गतौ भौवादिकोनुदात्तेत् एवंगुणविशिष्टामहानुभावाः आदित्यासः आदित्याः अस्मदधीनाभवन्त्वि तिशेषः ॥ ४ ॥