ति॒स्रो भूमी᳚र्धारय॒न्त्री{4}रु॒त द्यून्त्रीणि᳚ व्र॒ता वि॒दथे᳚ अ॒न्तरे᳚षाम् ।
ऋ॒तेना᳚दित्या॒ महि᳚ वो महि॒त्वं तद᳚र्यमन्वरुण मित्र॒ चारु᳚ ॥
ऋ॒तेना᳚दित्या॒ महि᳚ वो महि॒त्वं तद᳚र्यमन्वरुण मित्र॒ चारु᳚ ॥
पदपाठः (Word-by-word)
ति॒स्रः । भूमीः᳚ । धा॒र॒य॒न् । त्रीन् । उ॒त । द्यून् । त्रीणि᳚ । व्र॒ता । वि॒दथे᳚ । अ॒न्तः । ए॒षा॒म् ।
ऋ॒तेन᳚ । आ॒दि॒त्याः॒ । महि᳚ । वः॒ । म॒हि॒॑त्वम् । तत् । अ॒र्य॒म॒न् । व॒रु॒ण॒ । मि॒त्र॒ । चारु᳚ ॥
ऋ॒तेन᳚ । आ॒दि॒त्याः॒ । महि᳚ । वः॒ । म॒हि॒॑त्वम् । तत् । अ॒र्य॒म॒न् । व॒रु॒ण॒ । मि॒त्र॒ । चारु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
तिस्रोभूमीः अत्रभूमिशब्दोलोकत्रयेवर्तते योद्वितीयस्यांतृतीयस्यांपृथिव्यामित्यत्रयथा पृथिवी शब्दः भूम्यन्तरिक्षस्वर्गांस्त्रीन्लोकान् आदित्याः धारयन् वृष्टिप्रदानादिनाधारयन्ति उतअपिच द्यून् दीप्तान् ततउपरितनान् महरादिकानपित्रीन् लोकन्धारयन्ति यद्वा दीप्तान् अग्निंवायुंसूर्यं चधारयन्ति अपिचैषामादित्यानांविदथेयज्ञेअन्तर्मध्येत्रीणिव्रतासवनत्रयनिष्पाद्यानित्रीणिकर्माणिसन्ति यद्वा एषांलोकानामंतर्मध्येविदथेयज्ञेनिमित्तभूतेसति एषामादित्यानांत्रीणिकर्माणिरसादानधारणविसर्ज- नलक्षणानिसन्ति उत्तरोर्धर्चःप्रत्यक्षकृतः हेआदित्याः ऋतेनसत्येनयज्ञेन वामहिमहत्प्रभूतंवोयुष्माकं महित्वंमहत्त्वंयन्महाभाग्यं हेअर्यमन् वरुण मित्र तन्महाभाग्यंचारुशोभनंसर्वोत्कृष्टमित्यर्थः ॥ ८ ॥