श्रवणम्

2.27.16
या वो᳚ मा॒या अ᳚भि॒द्रुहे᳚ यजत्रा॒ः पाशा᳚ आदित्या रि॒पवे॒ विचृ᳚त्ताः ।
अ॒श्वीव॒ ता{4} अति᳚ येषं॒ रथे॒नारि᳚ष्टा उ॒रावा शर्म᳚न्त्स्याम ॥
▶ पदपाठः (Word-by-word)
याः । वः॒ । मा॒याः । अ॒भि॒॑द्रुहे᳚ । य॒ज॒त्राः॒᳚ । पाशाः᳚ । आ॒दि॒त्याः॒ । रि॒पवे᳚ । वि॑चृ᳚त्ताः ।
अ॒श्वी॑इ᳚व । तान् । अति᳚ । ये॒ष॒म् । रथे᳚न । अरि᳚ष्टाः । उ॒रौ । आ । शर्म᳚न् । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयजत्राः यष्टव्याआदित्याः वोयुष्माकंयाःमायाः अभिद्रुहे अभिद्रोहंकुर्वतेराक्षसादयेनिर्मिताः येचपाशाः रिपवेशत्रवेविचृत्ताः चृतीहिंसाग्रन्थनयोः प्रसारिताइत्यर्थः तान्पाशान् मायाश्चरथेन अतियेषं अतीत्यप्रयतेयं अतितरेयमित्यर्थः तत्रदृष्टान्तः—अश्वीव यथाशोभनाश्वः कशित्पुरुषः दुस्तरान्मार्गान् शीघ्रमतिक्रामति तद्वत् येष्टृप्रयत्ने भौवादिकोनुदात्तेत् छान्दसोलङ् व्यत्ययेनपर स्मैपदम् तथावयंअरिष्टाः शत्रुभिरहिंसिताःसन्तः उरौविस्तीर्णेशमन् शर्मेतिगृहनाम त्वयादत्ते- सुखेगृहेवाआसमन्तात् स्याम वर्तमानाभवेम ॥ १६ ॥