श्रवणम्

2.27.9
त्री रो᳚च॒ना दि॒व्या धा᳚रयन्त हिर॒ण्यया॒ः शुच᳚यो॒ धार᳚पूताः ।
अस्व᳚प्नजो अनिमि॒षा अद᳚ब्धा उरु॒शंसा᳚ ऋ॒जवे॒ मर्त्या᳚य ॥
▶ पदपाठः (Word-by-word)
त्री । रो॒च॒ना । दि॒व्या । धा॒र॒य॒न्त॒ । हि॒र॒ण्ययाः᳚ । शुच᳚यः । धार᳚॑पूताः ।
अस्व᳚प्न॑जः । अ॒नि॒॑मि॒षाः । अद᳚ब्धाः । उ॒रु॒॑शंसाः᳚ । ऋ॒जवे᳚ । मर्त्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रीरोचनात्रीणिरोच्नानिरोचमानान्यग्न्यादीनितेजांसि दिव्यादिव्यानिदिविभवानिधारयन्त आदित्याअवस्थापयन् किमर्थं ऋजवेऋजीकायउपार्जकायस्तोत्राणां मर्त्यायमनुष्यायभोगसिद्भ्यर्थ मितियावत् कीदृशाआदित्याः हिरण्ययाः हिरण्मयाः हिरण्यालंकृतसर्वाङ्गः यद्वा हितरमणीय वेषाः शुचयोदीप्यमानाः धारपूताः उदकधारयाक्षालिताइवनिर्मलाः अस्वप्नजः असञ्चातस्वप्नाः सुपांसुलुगितिजसःसुः अपरआह अस्वप्नजः अस्वपन्तः विगतनिद्राः स्वपितृषोर्नजिङितिनजिङ्प्र- त्ययइति तदेतत्पदकारस्यानभिमतम् अनिमिषाः निमेशराहिताः अदब्धाः असुरादिभिरहिंसिताः उरुशंसाः उरुभिर्बहुभिःशंसनीयाः स्तोतव्याः एवंगुणविशिष्टाअधारयन्तेत्यन्वयः ॥ ९ ॥