सु॒गो हि वो᳚ अर्यमन्मित्र॒ पन्था᳚ अनृक्ष॒रो व᳚रुण सा॒धुरस्ति᳚ ।
तेना᳚दित्या॒ अधि᳚ वोचता नो॒ यच्छ᳚ता नो दुष्परि॒हन्तु॒ शर्म᳚ ॥
तेना᳚दित्या॒ अधि᳚ वोचता नो॒ यच्छ᳚ता नो दुष्परि॒हन्तु॒ शर्म᳚ ॥
पदपाठः (Word-by-word)
सु॒॑गः । हि । वः॒ । अ॒र्य॒म॒न् । मि॒त्र॒ । पन्थाः᳚ । अ॒नृ॒क्ष॒रः । व॒रु॒ण॒ । सा॒धुः । अस्ति᳚ ।
तेन᳚ । आ॒दि॒त्याः॒ । अधि᳚ । वो॒च॒त॒ । नः॒ । यच्छ᳚त । नः॒ । दुः॒॑प॒रि॒हन्तु᳚ । शर्म᳚ ॥
तेन᳚ । आ॒दि॒त्याः॒ । अधि᳚ । वो॒च॒त॒ । नः॒ । यच्छ᳚त । नः॒ । दुः॒॑प॒रि॒हन्तु᳚ । शर्म᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअर्यमन् मित्र वरुण वोयुष्माकंसुगः सुखेनगन्तव्यः अनृक्षरः ऋक्षरःकण्टकऋच्छतेरिति तद्रहि- तः साधुः साधकः शोभनोवा एवंगुणविशिष्टः पन्थामार्गोस्तिहि विद्यतेखलु अतस्तेपथाअस्मान् शो- भनं नयतेतिशेषः हेआदित्याः नोस्माकं अधिवोचत अधिवचनं पक्षपातेनवचनं कुरुत अपिनोस्मभ्यं दुष्परिहन्तु दुःखेनपरिहन्तुं विनाशयितुमशक्यंशर्मसुखंयच्छत दत्त दाण् दाने शपिपाघ्रेत्यादिनाय- च्छादेशः ॥ ६ ॥