श्रवणम्

2.27.13
शुचि᳚र॒पः सू॒यव᳚सा॒ अद᳚ब्ध॒ उप᳚ क्षेति वृ॒द्धव᳚याः सु॒वीरः᳚ ।
नकि॒ष्टं घ्न॒न्त्यन्ति᳚तो॒ न दू॒राद्य आ᳚दि॒त्यानां॒ भव᳚ति॒ प्रणी᳚तौ ॥
▶ पदपाठः (Word-by-word)
शुचिः᳚ । अ॒पः । सु॒॑यव᳚साः । अद᳚ब्धः । उप᳚ । क्षे॒ति॒ । वृ॒द्ध॑व᳚याः । सु॒॑वीरः᳚ ।
नकिः᳚ । तम् । घ्न॒न्ति॒ । अन्ति᳚तः । न । दू॒रात् । यः । आ॒दि॒त्याना᳚म् । भव᳚ति । प्र॑नी᳚तौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सयजमानः शुचिर्दीप्यमानः शुद्धोवाअदब्धः सपत्नैरबाधितः वृद्धवयाः प्रभूतान्नः सुवीरः शोभ- नपुत्रश्चसन् सूयवसाः शोभनसस्यान्यपः वृष्टिलक्षणान्युदकानिउपक्षेति उपनिवसति सर्वदासुसस्या नामपांचसमीपेनिवसतीत्यर्थः तथानकिर्नचतंघ्नन्तिहिंसन्ति अंतितोनअन्तिकात्समीपदेशाच्चदूराद्वि- प्रकृष्टाच्चदेशादागताबाधकाः अन्तिकस्यतसिलादिलोपइतिलोपः योयजमानः आदित्यानांअदितेः पुत्राणां मित्रादीनां प्रणीतौ प्रकृष्टेनयनेप्रापणे भवति वर्ततेसइतिपूर्वत्रसंबन्धः ॥ १३ ॥