श्रवणम्

2.29.6 समानपद
अ॒र्वाञ्चो᳚ अ॒द्या भ᳚वता यजत्रा॒ आ वो॒ हार्दि॒ भय᳚मानो व्ययेयम् ।
त्राध्वं᳚ नो देवा नि॒जुरो॒ वृक᳚स्य॒ त्राध्वं᳚ क॒र्ताद᳚व॒पदो᳚ यजत्राः ॥
▶ पदपाठः (Word-by-word)
अ॒र्वाञ्चः᳚ । अ॒द्य । भ॒व॒त॒ । य॒ज॒त्राः॒ । आ । वः॒ । हार्दि᳚ । भय᳚मानः । व्य॒ये॒य॒म् ।
त्राध्व᳚म् । नः॒ । दे॒वाः॒ । नि॒॑जुरः᳚ । वृक᳚स्य । त्राध्व᳚म् । क॒र्तात् । अ॒व॒॑पदः᳚ । य॒ज॒त्राः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयजत्राः यष्टव्यादेवाः अद्येदानीमर्वाञ्चोस्मदभिमुखाभवत वोयुष्माकंहार्दिहृद्यवस्तितंरक्षणंभ- यमानोबिभ्यदहंआव्ययेयं आभिमुख्येनप्राप्नुयाम् व्ययगतौ भौवादिकः हेदेवाः वृकस्यतस्करस्य आर- ण्यशुनोवा संबन्धिनः निजुरोनिहननात् जुरीहिंसार्थः अस्मात्संपदादिलक्ष्णोभावेक्विप् छान्द सोह्रस्वः नोस्मान् त्राध्वं त्रायध्वम् तथा हेयजत्राः अवपदःआपदः कर्तात् कर्तुः सकाशात् त्राध्वं त्रा- यध्वम् ॥ ६ ॥