प्र व॒ एको᳚ मिमय॒ भूर्यागो॒ यन्मा᳚ पि॒तेव᳚ कित॒वं श᳚शा॒स ।
आ॒रे पाशा᳚ आ॒रे अ॒घानि᳚ देवा॒ मा माधि᳚ पु॒त्रे विमि᳚व ग्रभीष्ट ॥
आ॒रे पाशा᳚ आ॒रे अ॒घानि᳚ देवा॒ मा माधि᳚ पु॒त्रे विमि᳚व ग्रभीष्ट ॥
पदपाठः (Word-by-word)
प्र । वः॒ । एकः᳚ । मि॒म॒य॒ । भूरि᳚ । आगः᳚ । यत् । मा॒ । पि॒ता॑इ᳚व । कि॒त॒वम् । श॒शा॒स ।
आ॒रे । पाशाः᳚ । आ॒रे । अ॒घानि᳚ । दे॒वाः॒ । मा । मा॒ । अधि᳚ । पु॒त्रे । विम्॑इ᳚व । ग्र॒भी॒ष्ट॒ ॥
आ॒रे । पाशाः᳚ । आ॒रे । अ॒घानि᳚ । दे॒वाः॒ । मा । मा॒ । अधि᳚ । पु॒त्रे । विम्॑इ᳚व । ग्र॒भी॒ष्ट॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेदेवाः वोयुष्माकंमध्येअहमेकःसन् भूरिबहुलंआगः पापंप्रमिमयअहंप्रकर्षेणाहिंसिषं कथमस्माकं मध्येत्वमेव इतिचेदुच्यते—यद्यस्मात् मामांपितेवकित् वं यथाअपथप्रवृत्तंपुत्रंपितानुशास्तितथाश- शास अनुशिष्टंचकृढ्वे शासुअनुशिष्टावित्यस्माल्लिटिमध्यमस्यरूपम् अपिच हेदेवाः युष्मदीयाः पाशाः आरेअस्मत्तोदूरदेशेसन्तु अद्यानिपापानिचआरेसन्तुमामाअधिपुत्रे अधिःसप्तम्यर्थानुवादी पुत्रे- पश्यतिसतिपितरंमंतं विमिवपक्षिणमिवव्याधः माग्नभीष्ट मागृह्णीध्वम् माङिलुङि हृग्रहोर्भइतिभ- त्वम् ॥ ५ ॥