श्रवणम्

2.20.8
तस्मै᳚ तव॒स्य१॒᳚मनु᳚ दायि स॒त्रेन्द्रा᳚य दे॒वेभि॒रर्ण᳚सातौ ।
प्रति॒ यद᳚स्य॒ वज्रं᳚ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय᳚सी॒र्नि ता᳚रीत् ॥
▶ पदपाठः (Word-by-word)
तस्मै᳚ । त॒व॒स्य᳚म् । अनु᳚ । दा॒यि॒ । स॒त्रा । इन्द्रा᳚य । दे॒वेभिः᳚ । अर्ण᳚॑सातौ ।
प्रति᳚ । यत् । अ॒स्य॒ । वज्र᳚म् । बा॒ह्वोः । धुः । ह॒त्वी । दस्यू᳚न् । पुरः᳚ । आय᳚सीः । नि । ता॒री॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवेभिर्देवनशीलैः स्तोतृभिः अर्णसातौ उदकलाभेनिमित्ते तस्माइन्द्रायतवस्यंतवसे बलायहितं बलवर्धनंहविः सत्रासन्तं सर्वेष्वहस्सुअनुअनुक्रमेणसवनत्रयेदायिअदायि यद्वा तवस्यंयद्बलं प्रवृद्धाय- दीयते तत्तवस्यं देवेभिर्देवैरुदकभजने अनुक्रमेणतद्बलंतस्माइन्द्रायादायि तथामन्त्रः—अनुतेदायिमह इन्द्रियायेति । यद्यदाअस्येन्द्रस्यबाह्वोर्वज्रंप्रतिधुः स्तोतारोसुरवधसूचकेनस्तोत्रेणप्रतिनिदधुः स्तूय मानोहीन्द्रोदस्युवधार्थं वज्रमादत्ते दधुः दधातेर्लुङि गातिस्थेतिसिचोलुक् आतइतिझेर्जुस् ततस्तेन वज्रेणदस्यूनसुरान् हत्वीहत्वा तंदीयाआयसीरयोमयीः पुरोनितारीत् नितरामनाशयत् ॥ ८ ॥