श्रवणम्

2.20.7
स वृ᳚त्र॒हेन्द्र᳚ः कृ॒ष्णयो᳚नीः पुरंद॒रो दासी᳚रैरय॒द्वि ।
अज᳚नय॒न्मन᳚वे॒ क्षाम॒पश्च᳚ स॒त्रा शंसं॒ यज᳚मानस्य तूतोत् ॥
▶ पदपाठः (Word-by-word)
सः । वृ॒त्र॒॑हा । इन्द्रः᳚ । कृ॒ष्ण॑यो᳚नीः । पु॒र॒म्॑द॒रः । दासीः᳚ । ऐ॒र॒य॒त् । वि ।
अज᳚नयत् । मन᳚वे । क्षाम् । अ॒पः । च॒ । स॒त्रा । शंस᳚म् । यज᳚मानस्य । तू॒तो॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृत्रहावृत्रस्यहन्तापुरन्दरः शंबरपुरांदारयितासइन्द्रः कृष्णयोनीर्निक्रुष्टजातीःदासीरुपक्षपयित्री रासुरीःसेनाः व्यैरयत् व्यनुदत् किञ्च मनवेमनोरर्थंक्षांप्रुथिवीमपउदकानिचअजनयत् यजमानस्यस त्रामहान्तंशंसमभिलाषंतूतोत् कामप्रदानेनपूरयतु तुव्रुद्धावितिसौत्रोधातुः शपःश्लुः तुजादित्वाद्दीर्घः यद्वा सत्रामहत् शंसंशंसनीयंशस्त्रंकामप्रदानेनवर्धयतु यद्वा कृष्णयोनीः कृष्णाख्येनासुरेणनिषिक्तरेत स्काः दासीर्भार्याव्यैरयत् व्यनुदत् तथामन्त्रः—यःकृष्णगर्भानिरहन्नृजिश्वनेति ॥ ७ ॥