श्रवणम्

2.20.5
सो अङ्गि᳚रसामु॒चथा᳚ जुजु॒ष्वान्ब्रह्मा᳚ तूतो॒दिन्द्रो᳚ गा॒तुमि॒ष्णन् ।
मु॒ष्णन्नु॒षस॒ः सूर्ये᳚ण स्त॒वानश्न᳚स्य चिच्छिश्नथत्पू॒र्व्याणि᳚ ॥
▶ पदपाठः (Word-by-word)
सः । अङ्गि᳚रसाम् । उ॒चथा᳚ । जु॒जु॒ष्वान् । ब्रह्मा᳚ । तू॒तो॒त् । इन्द्रः᳚ । गा॒तुम् । इ॒ष्णन् ।
मु॒ष्णन् । उ॒षसः᳚ । सूर्ये᳚ण । स्त॒वान् । अश्न᳚स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अङ्गिरसांसंबन्धीनिउचथाउक्थानिजुजुष्वान् जुषीप्रीतिसेवनयोरित्यस्यलिटिक्वसौरूपं सेवमा- नः सइन्द्रः गातुंपणिभिरुपद्रुतानामङ्गिरसांमार्गमिष्णन् प्रेरयन् ब्रह्म तेषां स्तोत्रंकामप्रदानेन तूतोत् तुविद्धावित्यस्यलङि बहुलंछन्दसीतिविकरणस्यश्लुः अवर्धयत् किञ्च स्तवान् स्तोत्रुभिः स्तूयमानः सूर्येणस्वात्मभूतेनौषसोमुष्णन् अपहरन् उदितेहिसूर्येउषसोव्यावर्तन्ते तादृशः सइन्द्रः अश्नस्य अश्नुते स्वतेजसासर्वंजगदित्यश्नःकश्विदसुरः तस्यपूर्व्याणिपुरातनानि पुराणिबलानिवा शिश्नयत् अश्नथयत् शिथिलीचकार चित्पूरणः ॥ ५ ॥