आ व᳚क्षि दे॒वा{4} इ॒ह वि᳚प्र॒ यक्षि᳚ चो॒शन्हो᳚त॒र्नि ष᳚दा॒ योनि᳚षु त्रि॒षु ।
प्रति᳚ वीहि॒ प्रस्थि᳚तं सो॒म्यं मधु॒ पिबाग्नी᳚ध्रा॒त्तव᳚ भा॒गस्य᳚ तृप्णुहि ॥
प्रति᳚ वीहि॒ प्रस्थि᳚तं सो॒म्यं मधु॒ पिबाग्नी᳚ध्रा॒त्तव᳚ भा॒गस्य᳚ तृप्णुहि ॥
पदपाठः (Word-by-word)
आ । व॒क्षि॒ । दे॒वान् । इ॒ह । वि॒प्र॒ । यक्षि᳚ । च॒ । उ॒शन् । हो॒तः॒ । नि । स॒द॒ । योनि᳚षु । त्रि॒षु ।
प्रति᳚ । वी॒हि॒ । प्र॑स्थि᳚तम् । सो॒म्यम् । मधु᳚ । पिब᳚ । आग्नी᳚ध्रात् । तव᳚ । भा॒गस्य᳚ । तृ॒प्णु॒हि॒ ॥
प्रति᳚ । वी॒हि॒ । प्र॑स्थि᳚तम् । सो॒म्यम् । मधु᳚ । पिब᳚ । आग्नी᳚ध्रात् । तव᳚ । भा॒गस्य᳚ । तृ॒प्णु॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेविप्र मेधाविन्नग्ने देवान् यष्टव्याअनिन्द्रादीन् इहास्मिन्यज्ञेआवक्षिआवह यक्षिच तान् यजच हेहोतः देवानामाह्वातः त्वं चउशन्नस्मदीयंहविः कामयमानःसन् त्रिषुयोनिषुस्थानेषुगार्हपत्या दिलक्षणेषुनिषद उपविश उपविश्यच प्रस्थितं होमार्थमुत्तरवेदिंप्रत्यानीतंसोम्यंसोममयंमधुप्रति वीहि प्रतिकामयस्व कामयित्वाचआग्नीध्रादग्नीध्रयागात् सोमंपिब पीत्वाचतवभागस्य त्वदीये नभागेन तृप्णुहितृप्तोभव ॥ ४ ॥