ए॒ष स्य ते᳚ त॒न्वो᳚ नृम्ण॒वर्ध᳚न॒ः सह॒ ओजः᳚ प्र॒दिवि᳚ बा॒ह्वोर्हि॒तः ।
तुभ्यं᳚ सु॒तो म᳚घव॒न्तुभ्य॒माभृ᳚त॒स्त्वम᳚स्य॒ ब्राह्म᳚णा॒दा तृ॒पत्पि᳚ब ॥
तुभ्यं᳚ सु॒तो म᳚घव॒न्तुभ्य॒माभृ᳚त॒स्त्वम᳚स्य॒ ब्राह्म᳚णा॒दा तृ॒पत्पि᳚ब ॥
पदपाठः (Word-by-word)
ए॒षः । स्यः । ते॒ । त॒न्वः᳚ । नृ॒म्ण॒॑वर्ध᳚नः । सहः᳚ । ओजः᳚ । प्र॒॑दिवि᳚ । बा॒ह्वोः । हि॒तः ।
तुभ्य᳚म् । सु॒तः । म॒घ॒॑व॒न् । तुभ्य᳚म् । आ॑भृ᳚तः । त्वम् । अ॒स्य॒ । ब्राह्म᳚णात् । आ । तृ॒पत् । पि॒ब॒ ॥
तुभ्य᳚म् । सु॒तः । म॒घ॒॑व॒न् । तुभ्य᳚म् । आ॑भृ᳚तः । त्वम् । अ॒स्य॒ । ब्राह्म᳚णात् । आ । तृ॒पत् । पि॒ब॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र स्यः सः एषसोमः तेतवतन्वः शरीरस्यनृम्णवर्धनः बलस्यवर्धकः तुभ्यंसुतइत्युत्तरत्र सम्बन्धः येनसोमेनप्रदिविपुराणेत्वयिबाह्वोर्हस्तयोः सहपरेषामभिभवनलक्षणंसामर्थ्यंओजस्तत्का रणभूतंबलंचहितः निहितंभवति लिङ्गव्यत्ययः हेमघवन्धनवन्निन्द्र तुभ्यंत्वदर्थंतादृशः सोमः सुतोध्वर्युभिरभिषुतः तुभ्यंहोतुंआभृतः उत्तरवेद्यांप्रत्याहृतश्च अस्यइमं सोमं ब्राह्मणात् ब्राह्मणा च्छंसिनोयागात् तृपत् तृप्यंस्त्वंआपिब आभिमुख्येनपिब क्रियाग्रहणंकर्तव्यमितिकर्मणः सम्प्रदान त्वादस्येतिचतुर्थ्यर्थेषष्ठी ॥ ५ ॥