कनि᳚क्रदज्ज॒नुषं᳚ प्रब्रुवा॒ण इय᳚र्ति॒ वाच᳚मरि॒तेव॒ नाव᳚म् ।
सु॒म॒ङ्गल᳚श्च शकुने॒ भवा᳚सि॒ मा त्वा॒ का चि᳚दभि॒भा विश्व्या᳚ विदत् ॥
सु॒म॒ङ्गल᳚श्च शकुने॒ भवा᳚सि॒ मा त्वा॒ का चि᳚दभि॒भा विश्व्या᳚ विदत् ॥
पदपाठः (Word-by-word)
कनि᳚क्रदत् । ज॒नुष᳚म् । प्र॒॑ब्रु॒वा॒णः । इय᳚र्ति । वाच᳚म् । अ॒रि॒ता॑इ᳚व । नाव᳚म् ।
सु॒॑म॒ङ्गलः᳚ । च॒ । श॒कु॒ने॒ । भवा᳚सि । मा । त्वा॒ । का । चि॒त् । अ॒भि॒॑भा । विश्व्या᳚ । वि॒द॒त् ॥
सु॒॑म॒ङ्गलः᳚ । च॒ । श॒कु॒ने॒ । भवा᳚सि । मा । त्वा॒ । का । चि॒त् । अ॒भि॒॑भा । विश्व्या᳚ । वि॒द॒त् ॥
सायणभाष्यम् (Sayana Commentary)
कनिक्रदत् पुनःपुनःशब्दायमानः जनुषंनिष्यमाणमर्थं प्रब्रुवाणः सूचयन् कपिञ्चलः अरितेव कर्णधारइवनावंवाचमियर्तिप्रेरयति अथप्रत्यक्षकृतः हेशकुनेकपिञ्चल त्वंसुमङ्गलः प्रकृष्टकल्याण श्चभवासिभव किञ्च काचिदभिभा कोप्यभिभवः त्वात्वां विश्व्याविश्वतः सर्वासुदिक्षुमाविदत् माप्रापत् शकुनिः शक्नोत्युन्नेतुमात्मनं न्यक्रन्दीज्जन्मप्रब्रुवाणोयथास्यशब्दस्तथानामेरयतिवाचमीर यितेवनावंसुमङ्गलश्चशकुनेभवकल्याणमङ्गलोमङ्लंगिरतेर्गृणात्यर्थेगिरत्यर्थानितिवेतियास्कः ॥ १ ॥