श्रवणम्

2.34.1
धा॒रा॒व॒रा म॒रुतो᳚ धृ॒ष्ण्वो᳚जसो मृ॒गा न भी॒मास्तवि᳚षीभिर॒र्चिनः᳚ ।
अ॒ग्नयो॒ न शु᳚शुचा॒ना ऋ᳚जी॒षिणो॒ भृमिं॒ धम᳚न्तो॒ अप॒ गा अ᳚वृण्वत ॥
▶ पदपाठः (Word-by-word)
धा॒रा॒व॒राः । म॒रुतः᳚ । धृ॒ष्णु॑ओ᳚जसः । मृ॒गाः । न । भी॒माः । तवि᳚षीभिः । अ॒र्चिनः᳚ ।
अ॒ग्नयः᳚ । न । शु॒शु॒चा॒नाः । ऋ॒जी॒षिणः᳚ । भृमि᳚म् । धम᳚न्तः । अप᳚ । गाः । अ॒वृ॒ण्व॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धारावरा उदकधारयान्तरिक्षमावृण्वन्तः यद्वा धाराणांधृतानांस्थिराणांवृक्षादीनां निवारयिता- रः चालयितारः यद्वा सर्वस्यजगतोधारयितारः धृष्णवोजसः परेषांधर्षकेणबलेनयुक्ताः अतएवमृगा- नभीमाः सिंहाइवभयङ्कराः तविषीभिरात्मीयैर्बलैः वृष्टिप्रदानादिना अर्चिनः सर्वंजगत् पूजयन्तः अग्नयोनशुशुचानाः दीप्तावह्नयइवदीप्यमानाः शुचदीप्तौ लटःकानच् ऋजीषिणः ऋजीषमुदकंतद्व- न्तः यद्वा ऋजीषोपगतसारः सोमः तेनयुक्ताः तृतीयसवनेह्याग्निमारुते मरुतःस्तूयन्ते तत्रचसवनद्वये अभिषुतंगतसारं सोममभिषुण्वन्ति अतस्तेषांतद्युक्तत्वं एवं भूतामरुतः भृमिंभ्राम्यन्तं मेघंधमन्तः वर्षणार्थंइतस्ततःप्रेरयन्तः गाः तदन्तर्गतावर्ष्याः अपः अपावृण्वत अपावृताकुर्वन्ति यथासर्वैर्दृश्यन्ते तथाप्रवर्षन्तीत्यर्थः यद्वा भृम्याख्योवीणाविशेषः तंधमन्तोवादयन्तः गाः वलनाम्नासुरेणापिहिताः अपावृण्वत अपगतावरणाअकुर्वन् ॥ १ ॥