इन्ध᳚न्वभिर्धे॒नुभी᳚ र॒प्शदू᳚धभिरध्व॒स्मभि᳚ः प॒थिभि᳚र्भ्राजदृष्टयः ।
आ हं॒सासो॒ न स्वस᳚राणि गन्तन॒ मधो॒र्मदा᳚य मरुतः समन्यवः ॥
आ हं॒सासो॒ न स्वस᳚राणि गन्तन॒ मधो॒र्मदा᳚य मरुतः समन्यवः ॥
पदपाठः (Word-by-word)
इन्ध᳚न्व॑भिः । धे॒नु॑भिः᳚ । र॒प्शदू᳚ध॑भिः । अ॒ध्व॒स्म॑भिः᳚ । प॒थि॑भिः᳚ । भ्रा॒ज॒त्॑ऋ॒ष्ट॒यः॒ ।
आ । हं॒सासः᳚ । न । स्वस᳚राणि । ग॒न्त॒न॒ । मधोः᳚ । मदा᳚य । म॒रु॒तः॒ । स॒॑म॒न्य॒वः॒ ॥
आ । हं॒सासः᳚ । न । स्वस᳚राणि । ग॒न्त॒न॒ । मधोः᳚ । मदा᳚य । म॒रु॒तः॒ । स॒॑म॒न्य॒वः॒ ॥
सायणभाष्यम् (Sayana Commentary)
समन्यवः समानमनस्काः समानक्रोधाः समानतेजसोवाहेमरुतः भ्राजदृष्टयोदीप्यमानायुधायूयं इंधन्वभिः समिन्धनवद्भिः इन्धनशब्दाच्छन्दसीवनिपावितिमत्वर्थीयोवनिप् छान्दसोवर्णलोपः धेनुभिः प्रीणयितृभिश्च रप् शादूधभिः विरप् शीतिमहन्नाम महोधस्कैः ऊधांसिजलस्रोतोमार्गः यद्वा रपलपव्यक्तायांवाचि शब्दायमानोच्छ्रितप्रदेशैः अध्वरस्मभिः ध्वंसनरहितैः पथिभिः पतन्तिगच्छ- न्तीतिपन्थानोमेघाः एवंभूतैर्मेघैःसहमार्गैरेववाआगन्तन आगच्छत किमर्थं मधोर्मदाय सोमस्यमदा- र्थं तत्रदृष्टान्तः—हंसासोन यथाहंसाः स्वसराणिस्वकीयानि निवासस्थानानि प्राप्नुवन्तितद्वत् ॥ ५ ॥