श्रवणम्

2.11.12
त्वे इ॒न्द्राप्य᳚भूम॒ विप्रा॒ धियं᳚ वनेम ऋत॒या सप᳚न्तः ।
अ॒व॒स्यवो᳚ धीमहि॒ प्रश᳚स्तिं स॒द्यस्ते᳚ रा॒यो दा॒वने᳚ स्याम ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । इ॒न्द्र॒ । अपि᳚ । अ॒भू॒म॒ । विप्राः᳚ । धिय᳚म् । व॒ने॒म॒ । ऋ॒त॒॑या । सप᳚न्तः ।
अ॒व॒स्यवः᳚ । धी॒म॒हि॒ । प्र॑श᳚स्तिम् । स॒द्यः । ते॒ । रा॒यः । दा॒वने᳚ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र विपामेधानिवोवयंत्वेत्वयित्वद्धृदयेअभूम अपिसानुनयप्रश्नेवर्तते तेतवहृदयेकिंवर्ता- महइति ऋतयाऋतंकर्मफलंतत्कामनयासपन्तः त्वांपरिचरणाख्येनकर्मणास्पृशन्तोवयंधियं त्व- दुद्देशेनक्रियमाणंकर्मवनेम संभजेमहि वनषणसंभक्तौ आशीर्लिङिलिङ्याशिष्यङित्यङ्प्रत्ययः किञ्च अवस्यवः त्वत्तोरक्षणमिच्छन्तः प्रशस्तिंशस्तिःशंसनं प्रकृष्टशंसनंस्तोत्रं धीमहि त्वयिनिदधी- महि ततः तेत्वदीयस्यरायोधनस्यदावनेदानायपात्रभूताः सद्यः स्याम इदानीं भवेम ॥ १२ ॥