श्रवणम्

2.11.5 समानपद
गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्स्वपी᳚वृतं मा॒यिनं᳚ क्षि॒यन्त᳚म् ।
उ॒तो अ॒पो द्यां त᳚स्त॒भ्वांस॒मह॒न्नहिं᳚ शूर वी॒र्ये᳚ण ॥
▶ पदपाठः (Word-by-word)
गुहा᳚ । हि॒तम् । गुह्य᳚म् । गू॒ळ्हम् । अ॒प्॑सु । अपि᳚॑वृतम् । मा॒यिन᳚म् । क्षि॒यन्त᳚म् ।
उ॒तो इति᳚ । अ॒पः । द्याम् । त॒स्त॒भ्वांस᳚म् । अह᳚न् । अहि᳚म् । शू॒र॒ । वी॒र्ये᳚ण ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशूरेन्द्र गुहागुहायांहितंनिहितं अतएवगुह्यं अप्रकाश्यंगूह्ळंगूढं अप्सुउदकेषुअपीवृतंतिरोहितं अत्रैकस्मिन् तिरोधानरूपेर्थेपुनरुक्तयस्तिरोधानभूयस्त्वप्रतिपादनपराः अभ्यासेहिभूयानर्थोभवति यथाहोदर्शनीयाहोदर्शनीयेति तादृशंमायिनंमायाविनंअसुरंक्षियन्तं निवसंतं उतोअपिचापोद्यां दिवं- चतस्तभ्वांसं स्वसामर्थ्येनस्तंभयन्तं इत्थंभूतमहिमसुरंमेघंवावीर्येणसामर्थ्यभूतेन वज्रेण अहन् हतवानसि हनहिंसागत्योरित्यस्यलङिरूपम् ॥ ५ ॥