सने᳚म॒ ये त᳚ ऊ॒तिभि॒स्तर᳚न्तो॒ विश्वा॒ः स्पृध॒ आर्ये᳚ण॒ दस्यू᳚न् ।
अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू᳚प॒मर᳚न्धयः सा॒ख्यस्य᳚ त्रि॒ताय᳚ ॥
अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू᳚प॒मर᳚न्धयः सा॒ख्यस्य᳚ त्रि॒ताय᳚ ॥
पदपाठः (Word-by-word)
सने᳚म । ये । ते॒ । ऊ॒ति॑भिः᳚ । तर᳚न्तः । विश्वाः᳚ । स्पृधः᳚ । आर्ये᳚ण । दस्यू᳚न् ।
अ॒स्मभ्य᳚म् । तत् । त्वा॒ष्ट्रम् । वि॒श्व॑रू᳚पम् । अर᳚न्धयः । सा॒ख्यस्य᳚ । त्रि॒ताय᳚ ॥
अ॒स्मभ्य᳚म् । तत् । त्वा॒ष्ट्रम् । वि॒श्व॑रू᳚पम् । अर᳚न्धयः । सा॒ख्यस्य᳚ । त्रि॒ताय᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सनेम तान् पुरुषान् संभजेम येते तवोतिभिःपालनैः विश्वाः स्पृधःस्पर्धमानाः सर्वाविशः तरन्तः हिंसन्तः तथाआर्येणआर्यभावेनदस्यूनुपक्षपयितॄन् हिंसन्तोभवन्ति तदस्मभ्यंवशमानय किंतत्तदाह— त्वाष्ट्रंत्वष्टुःसुतंविश्वरूपमेतन्नामकमसुरंअरन्धयः रध्यतिर्वशगमने वशमानयः यद्वा तमसुरमवधीः रधहिंसासंराध्योःरधिजभोरचीतिनुम् इन्द्रः त्वाष्ट्रमवधीदित्ययमर्थः तैत्तिरीयके—विश्वरूपोवैत्वा- ष्ट्रइत्यत्रमहताप्रबंधेनप्रपञ्चितः । किञ्च साख्यस्यसखिभावस्यानुपालनाय त्रितायमहर्षयेवशमानयः यद्वा सनेमतेवयंप्रवृद्धाभवेम येवयंतवरक्षाभिःस्पर्धमानाः प्रजादस्यूंश्च तरन्तोतिक्रामन्तोभवेम सने- मेतिवृद्ध्यर्थआद्युदात्तः यथासनेममित्रावरुनासनन्तइति । सकर्मकश्चेन्मध्योदात्तः सनेमवाजंतवेति । तरन्तः तॄप्लवनतरणयोः शतरिरूपं संज्ञावचनश्चेदन्तोदात्तः यथा तरन्तइवमहनेति ॥ १९ ॥