श्रवणम्

2.11.1 समानपद
श्रु॒धी हव᳚मिन्द्र॒ मा रि᳚षण्य॒ः स्याम᳚ ते दा॒वने॒ वसू᳚नाम् ।
इ॒मा हि त्वामूर्जो᳚ व॒र्धय᳚न्ति वसू॒यव॒ः सिन्ध᳚वो॒ न क्षर᳚न्तः ॥
▶ पदपाठः (Word-by-word)
श्रु॒धि । हव᳚म् । इ॒न्द्र॒ । मा । रि॒ष॒ण्यः॒ । स्याम᳚ । ते॒ । दा॒वने᳚ । वसू᳚नाम् ।
इ॒माः । हि । त्वाम् । ऊर्जः᳚ । व॒र्धय᳚न्ति । व॒सु॒॑यवः᳚ । सिन्ध᳚वः । न । क्षर᳚न्तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

गृत्समदःस्तौति हेइन्द्र मेहवंमदीयमिदंस्तोत्रं श्रुधि श्रृणु मारिषण्यः माहिंसीः इदमल्पं नसाधी- यइतिमानिराकार्षीः दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यतीतिनिपातितः वयंतेतववसूनांदावनेदानाय- स्यामपात्रभूताभवेम इमाः अस्माभिर्दत्तानिवसूयवः दातुर्यजमानस्यधनमिच्छन्ति छन्दसिपरेच्छा- यांक्यच् तादृशानिक्षरंतः स्रवन्तः सिन्धवइव घृतक्षरणोपेतानिऊर्जोहविर्लक्षणान्यन्नानि त्वांवयर्ध- न्तिहि ॥ १ ॥