अग्ने॒ यज᳚स्व ह॒विषा॒ यजी᳚याञ्छ्रु॒ष्टी दे॒ष्णम॒भि गृ᳚णीहि॒ राधः᳚ ।
त्वं ह्यसि᳚ रयि॒पती᳚ रयी॒णां त्वं शु॒क्रस्य॒ वच᳚सो म॒नोता᳚ ॥
त्वं ह्यसि᳚ रयि॒पती᳚ रयी॒णां त्वं शु॒क्रस्य॒ वच᳚सो म॒नोता᳚ ॥
पदपाठः (Word-by-word)
अग्ने᳚ । यज᳚स्व । ह॒विषा᳚ । यजी᳚यान् । श्रु॒ष्टी । दे॒ष्णम् । अ॒भि । गृ॒णी॒हि॒ । राधः᳚ ।
त्वम् । हि । असि᳚ । र॒यि॒॑पतिः᳚ । र॒यी॒णाम् । त्वम् । शु॒क्रस्य᳚ । वच᳚सः । म॒नोता᳚ ॥
त्वम् । हि । असि᳚ । र॒यि॒॑पतिः᳚ । र॒यी॒णाम् । त्वम् । शु॒क्रस्य᳚ । वच᳚सः । म॒नोता᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने यजीयान् यष्टृतमस्त्वं हविषास्मद्दत्तेनयजस्व देवान्संयोजयदेष्णंदेयंराधोन्नंश्रुष्टी श्रुष्टीति- क्षिप्रनाम क्षिप्रंअभिगृणीहि देवानांपुरतः इदंस्वादुतरमिदंस्वादुतरमितिब्रूहि यद्वा श्रुष्टीक्षिप्रकारी त्वंदेष्णंदेयंराधोधनंअभिगृणीहि अस्मदाभिमुख्येनब्रूहिप्रयच्छेत्यर्थः दानसामर्थ्यंदर्शयति त्वंरयीणां- धनानांमध्येरयिपतिः उत्तमधनस्यपतिरसिहि यद्वा रयीणांरयिपतिरित्यत्रैकोरयिशब्दोनुवादः त्वं- शुक्रस्यदीप्तस्यवचसः अस्मदीयस्यस्तोत्रस्यमनोताप्रज्ञाताभवसि यद्वा मानयिता ॥ ४ ॥