श्रवणम्

2.9.3
वि॒धेम᳚ ते पर॒मे जन्म᳚न्नग्ने वि॒धेम॒ स्तोमै॒रव᳚रे स॒धस्थे᳚ ।
यस्मा॒द्योने᳚रु॒दारि᳚था॒ यजे॒ तं प्र त्वे ह॒वींषि᳚ जुहुरे॒ समि᳚द्धे ॥
▶ पदपाठः (Word-by-word)
वि॒धेम᳚ । ते॒ । प॒र॒मे । जन्म᳚न् । अ॒ग्ने॒ । वि॒धेम᳚ । स्तोमैः᳚ । अव᳚रे । स॒ध॑स्थे᳚ ।
यस्मा᳚त् । योनेः᳚ । उ॒त्॑आरि᳚थ । यजे᳚ । तम् । प्र । त्वे इति᳚ । ह॒वींषि᳚ । जु॒हु॒रे॒ । सम्॑इ᳚द्धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने परमेउत्कृष्टेजन्मन् जायतेप्रादुर्भवत्यस्मिन्नितिजन्मस्थानंद्यौः तस्मिन्द्युलोकेवस्थिताय- तेतुभ्यंविधेम स्तुतिभिःपरिचरेम अवरेद्युलोकादधस्तनेसधस्थेन्तरिक्षेस्थितायतुभ्यंस्तोमैः स्तोत्रै- र्विधेम परिचरेम यद्यस्माद्योनेः प्रुथिवीरूपातस्थानात्त्वमुदास्थि उद्गतोसि प्रादुर्भूतोसि तंपृथिवी- प्रदेशंयजेपूजयामि तत्रहिसमिद्धेसमिद्भिःसमिध्यमानेत्वेत्वयि हवींषिपुरोडाशादीनि प्रजुहुरेअध्व- र्य्वादयः प्रजुह्वति जुहोतोर्लिटिरूपम् ॥ ३ ॥