श्रवणम्

2.10.3 समानपद
उ॒त्ता॒नाया᳚मजनय॒न्त्सुषू᳚तं॒ भुव᳚द॒ग्निः पु᳚रु॒पेशा᳚सु॒ गर्भ᳚ः ।
शिरि᳚णायां चिद॒क्तुना॒ महो᳚भि॒रप᳚रीवृतो वसति॒ प्रचे᳚ताः ॥
▶ पदपाठः (Word-by-word)
उ॒त्ता॒नाया᳚म् । अ॒ज॒न॒य॒न् । सु॑सू᳚तम् । भुव᳚त् । अ॒ग्निः । पु॒रु॒॑पेशा᳚सु । गर्भः᳚ ।
शिरि᳚णायाम् । चि॒त् । अ॒क्तुना᳚ । महः᳚॑भिः । अप᳚रि॑वृतः । व॒स॒ति॒ । प्र॑चे᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत्तानायामुत्तानेशयायामरण्यांसुषूतं अग्निहोत्रार्थंसुष्ठुप्रेरितमग्निमजनयन् अध्वर्य्वादयौदपादयन् सोग्निः पुरुषेशासु पेशइतिरूपनाम बहुरूपास्वेषधीषुगर्भोभवतु अन्तर्वर्तमानतयागर्भइवभवेत् भवेत् भवतेर्लिङिरूपं शिरिणायांचित् शीर्यतेस्यांभूतानीतिशिरिणारात्रिः तस्यामपिअक्तुनाअञ्चनादक्तुस्त- मः तेनतमसाअपरिवृतः असंस्पृष्टः अतएवमहोभिस्तेजोभिर्युक्तः प्रचेताः प्रकृष्टप्रज्ञःसन् वसति दीप्य- मानोवर्तते ॥ ३ ॥