श्रवणम्

2.10.6 समानपद
ज्ञे॒या भा॒गं स᳚हसा॒नो वरे᳚ण॒ त्वादू᳚तासो मनु॒वद्व᳚देम ।
अनू᳚नम॒ग्निं जु॒ह्वा᳚ वच॒स्या म᳚धु॒पृचं᳚ धन॒सा जो᳚हवीमि ॥
▶ पदपाठः (Word-by-word)
ज्ञे॒याः । भा॒गम् । स॒ह॒सा॒नः । वरे᳚ण । त्वा॑दू᳚तासः । म॒नु॒॑वत् । व॒दे॒म॒ ।
अनू᳚नम् । अ॒ग्निम् । जु॒ह्वा᳚ । व॒च॒स्या । म॒धु॒॑पृच᳚म् । ध॒न॒॑साः । जो॒ह॒वी॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरेणवारयत्यनेनशत्रूनितिवरंतेजः तेनसहमानः शत्रूनभिभवन् त्वंभागंभजनीयंस्तोत्रंज्ञेयाः जा- नीहि आशिर्लिङि वान्यस्यसंयोगादेरित्येत्वं त्वादूतासः त्वंदूतोयेषामसितेत्वादूतासः यद्वा त्वयाप्रे- रितावयंमनुवत् मनुरिव वदेम स्तोत्रं ब्रूयाम जुह्वा हूयतेस्यामितिजुहूर्ज्वालापात्रविशेषोवा तयाअ- नूनंसंपूर्णंमधुपृचं मधुनाकर्मफलेनयजमानंसंयोजयन्तमग्निंधनसाः धनस्यसंभक्ताहंवचस्यास्तुतिका- मनयाजोहवीमि आह्वयामि ॥ ६ ॥

श्रुधीहवमित्येकविंशत्यृचमेकादशंसूक्तम् गार्त्समदं अत्रानुक्रमणिका श्रुधिसैकैन्द्रंविराट् स्थानमृ- तेन्त्यामिति विराट् स्थानात्रिष्टुप् तल्लक्षणमनुक्रमण्यामुक्तम्—नबकौबैराजस्त्रैष्टुभश्च द्वौवावैराजौ- नवकस्त्रैष्टुभश्चविराट्स्थानेति । अन्त्यात्रिष्टुप् विशेषस्यानुक्तत्वात् इन्द्रोदेवता पृष्ठ्यस्यचतुर्थेहनि- मरुत्वतीयशस्त्रेद्वेसूक्तेनिविद्धाने तत्रेदंतृतीयंसूक्तं चतुर्थेहनीतिखण्डेसूत्रितं—श्रुधीहवमिन्द्रमरुत्वाँ- इन्द्रेतिमरुत्वतीयमिति ।