स्वः स्वाय॒ धाय᳚से कृणु॒तामृ॒त्विगृ॒त्विज᳚म् ।
स्तोमं᳚ य॒ज्ञं चादरं᳚ व॒नेमा᳚ ररि॒मा व॒यम् ॥
स्तोमं᳚ य॒ज्ञं चादरं᳚ व॒नेमा᳚ ररि॒मा व॒यम् ॥
पदपाठः (Word-by-word)
स्वः । स्वाय᳚ । धाय᳚से । कृ॒णु॒ताम् । ऋ॒त्विक् । ऋ॒त्विज᳚म् ।
स्तोम᳚म् । य॒ज्ञम् । च॒ । आत् । अर᳚म् । व॒नेम᳚ । र॒रि॒म । व॒यम् ॥
स्तोम᳚म् । य॒ज्ञम् । च॒ । आत् । अर᳚म् । व॒नेम᳚ । र॒रि॒म । व॒यम् ॥
सायणभाष्यम् (Sayana Commentary)
अयमग्निः स्वः स्वयमेवस्वाय स्वकीयाय धायसेकर्मणेहविषांधारणायवा ऋत्विक् होता जनिष्टे- त्यादिनोक्तलक्षणोहोतृपोतृप्रशास्त्राद्यृत्विग्रूपः सन् ऋत्विजंआर्त्विज्यं भावप्रधानोयंनिर्देशः देवर्त्विग्रू- पः सन् ऋत्विजंमानुषमार्त्विज्यंकृणुतांकरोतु वयंचतदनुग्रहात् आदनन्तरमेवस्तोत्रं यज्ञं चतदाश्रयं यागमपिअरंअलमत्यर्थंवनेम संभजेमहि ररिम ददेमहिचहविः यद्वा स्तोमंवनेमयज्ञं यज्ञयोग्यंहवीर- रिम ॥ ७ ॥